SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १५० ] अथ सुप्तेऽखिले लोके, कुमारं स्त्रीभिरावृतम् । अपश्यज्जाग्रतं सोऽब्जषण्डे कैरवषण्डवत् ॥१५३॥ [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् प्रभवस्तमुवाचाथ, जम्बूनामानमानतः । स्तम्भनीं देहि मे विद्यां गृह्णन् विद्याद्वयं मम ॥१५४॥ जम्बूस्वामी ततो वाचमाचष्टे स्म शमैकभूः । नास्ति स्तम्भनी विद्या, त्वद्विद्याभ्यां च किं मम ? ॥ १५५ ॥ काङ्क्षामि यदहं गेहविरहं निरहङ्कृतिः । व्रतं प्रातर्ग्रहीष्यामि, सुधर्मस्वामिसन्निधौ ॥१५६॥ §§ अथाऽऽह प्रभवः श्रीमन्निति प्राभवभाग् भवान् । भुनक्ति नैव किं भोगान् ?, व्रताय यतते कुतः ? ॥१५७॥ वरेणेदमथावादि, तथावादिनि तस्करे । सावधानीभवत्कर्णस्त्वमाकर्णय मद्गिरम् ॥ १५८॥ [ मधुबिन्दूदाहरणम् ] अशरण्यो महारण्ये, सार्थः कोऽपि मलिम्लुचैः । अमुष्यत यथा व्योम्नि, ताराभारः पयोधरैः ॥ १५९॥ सार्थे त्रस्ते समस्तेऽपि, पुमानटविकोटरे । तस्मिन्नेकः स्थितो मूढः, शाखीवोग्रदवोद्धृतः ॥१६०॥ सिन्धुरेणोद्धरेणाथ, समारब्धः स कानने । धावन् मृत्युभयाज्जीर्णकूपे झम्पामयं ददौ ॥१६१॥ तत्रावटतयेद्भूतवटशाखाविनिर्गतम् । पादं बन्धुमिवाभीष्टमाश्लिष्टः सोऽन्तरापतन् ॥ १६२॥ अथ कूपतलेऽद्राक्षीत्, करालमुखकोटरम् । क्षणादजगरं कालनगरोदरसोदरम् ॥१६३॥ परितोऽपश्यदाशासु, निराशासु स्थितिश्च सः । चतुरो यमनिर्मुक्तान् यामिकानिव पन्नगान् ॥१६४॥ १. प्रभाव खंता० पाता० ॥ D:\maha-k.pm5\ 2nd proof 1
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy