SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 5 पञ्चमः सर्गः] [१२१ ततश्चतुर्थमुच्छन्नक्रियं ध्यानमशिश्रियत् । पञ्चहूस्वाक्षरोच्चारकालमालम्बनातिगम् ॥१४०॥ प्रक्षीणाशेषकर्मोघः, संत्यक्ततनुपञ्चकः । स्वभावसिद्धोर्ध्वगतिर्चालावदृजुनाऽध्वना ॥१४१॥ अस्पृष्टाकाशगमनः, सिद्धानन्तचतुष्टयः । एकेन समयेनाऽऽप, मुक्तिलक्ष्मीवतंसताम् ॥१४२॥ युग्मम् ॥ क्षपकश्रेणिमारुह्य, परेऽपि परमर्षयः । तदा दश सहस्राणि, मुक्ति प्रभुवदभ्यगुः ॥१४३।। प्रथममयमुदारां प्राप्य सम्यक्त्वलक्ष्मी, तदनु मनुजवर्ग-स्वर्गसाम्राज्यलक्ष्मीम् । अथ निरुपमसम्यग्ज्ञान-चारित्रलक्ष्मी, भुवनपतिरवाप श्रायसी शर्मलक्ष्मीम् ॥१४४।। ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये श्रीऋषभस्वामिनिर्वाणवर्णनो नाम पञ्चमः सर्गः समाप्तः ॥ 15 10 श्रीवस्तुपालसचिवस्य परे कवीन्द्राः, कामं यशांसि कवयन्तु वयं तु नैव । येनेन्द्रमण्डपकतोऽस्य यशःप्रशस्तिरस्त्येव शक्रहदि शैलशिलाविशाले ॥१॥ ॥ ग्रन्थाग्रम् १४९ । उभयम् १४९८॥ १. म् १५० । उभयम् १४८५ इति पाता० ॥ D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy