SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १०४] [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अहो ! धिगिदमायातं, सङ्कटं स्वामिनोऽधुना । समं श्रीबाहुबलिना, बलिना सह यो रणः ||३३५॥ नियुद्धबुद्धिदानेऽस्मिन् दोषः को वा दिवौकसाम् ? | ईदृशानां मुधा नाम, कौतुकं को न पश्यति ? ॥३३६|| जानता भुजयोर्वीर्यमनुजस्य महीभुजा । एतन्मेने न जानीमस्तत् काऽपि भवितव्यता ? ||३३७|| स्वसैनिकानां श्रुत्वेति, गिरो भरतभूपतिः । बलं दर्शयितुं स्वस्य, तानाहूययेदमब्रबीत् ॥३३८॥ मया दृष्टोऽद्य दुःस्वप्नः, किल शृङ्खलमण्डलैः । बद्ध्वाऽऽकृष्य तटाद् भूपाः, कूपान्तर्मामपातयन् ॥ ३३९॥ अशिवस्य विभेदाय, स्वप्नार्थोऽयं ततोऽधुना । अवश्यं सत्यतां नेयो, भवद्भिर्बलशालिभिः ||३४०|| अनिच्छतामिदं राज्ञां प्रभोर्व्यसनसाहसम् । आज्ञां दत्त्वा स राजेन्दुः, कूपमेकमकारयत् ॥३४१॥ अवस्य तटे तस्य निविष्टो भरतेश्वरः । शृङ्खलानां सहस्रेण, वामहस्तावलम्बिना ||३४२ ॥ सर्वसैन्याभिसारेण, सर्वैरुर्वीभुजां गणैः । सर्वस्थाम्ना समालम्ब्य समाकृष्यत भूपतिः || ३४३|| युग्मम् ॥ ससैन्यानपि राजन्यान्, शृङ्खलासु विलम्बिनः । रोमभ्यो नाधिकान् मेने, बलवान् भरतेश्वरः || ३४४॥ हृद्यं हृद्यङ्गरागं स, तेने तेनैव पाणिना । पेतुस्ते तु समं दत्तसङ्केता इव भूभुजः ||३४५|| दृष्टेन च बलेनास्य, सम्भावितपराक्रमाः । भूभुजो भेजिरेऽम्भोजस्मेरवक्त्रास्तदा मुदम् ||३४६|| SS अथ श्रीबाहुबलिना, समं समरसीमनि । प्रथमं दृष्टियुद्धाय, प्रतिज्ञां कृतवान् नृपः ॥ ३४७।। १. तानह्नाये खंता० ॥ D:\maha-k.pm5\ 2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy