SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १००] [सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् गुरुडम्बरमौलिस्थरत्नकुम्भसमानताम् । रविलिप्सुरिव प्राप, तदाऽस्तगिरिमस्तकम् ॥२८३।। अस्ताचलपतद्भानुगोलकोच्छलितैरथ । पाथोभिरिव पाथोधिस्तमोभिर्व्यानशे नभः ॥२८४।। तदाऽर्क-मन्दरक्षोभिान्निःसरन्त्या इव श्रियः । उन्ममज्ज मुखाम्भोजम्भोधेरिन्दुकैतवात् ॥२८५।। सेनाभटेषु कुर्वत्सु , शस्त्रजागरणोत्सवम् । खड्गं जागरयामास, शशाङ्कोऽप्यङ्ककैतवात् ॥२८६।। स्तुतिव्रतानामन्योन्यं, वचनाहुतिभिर्भृशम् । दिदीपे नृपयोर्बद्धबोधः क्रोधधनञ्जयः ॥२८७।। ततस्ततरणोत्साहै:, सैन्ययोरुभयो टैः । रणदेव्याः पुरस्तेने, निद्रैव प्रथमं बलिः ॥२८८॥ बलयोस्तुर्यनिर्घोषैर्मगं त्रस्तमिवातः । दिदृक्षुरथ शीतांशुरगादस्ताद्रिकाननम् ॥२८९॥ ततः पूर्वाद्रिमारूढे, देवे दिवसभर्तरि । रागेणाभ्यागमस्ताभ्यां, चक्राभ्यामुपचक्रमे ॥२९०॥ सुभटः सुभटं हस्ती, हस्तिनं रथिनं रथी । आसदत् सादिनं सादी, बलयोरुभयोरपि ॥२९१।। छिन्नाः प्रोड्डीनकाण्डालीमण्डपेन रवेः कराः । पतिता इव भान्ति स्म, क्षितौ क्षतजकैतवात् ॥२९२।। उद्धृतधूलिजे ध्वान्ते, द्रष्टुं द्विष्टानिव क्रुधा । धावन्ति स्म भटाः प्रेङ्कुत्कुन्तदीपकपाणयः ॥२९३।। भुजाभृतां भुजादण्डैः, शिरोभिश्च क्षितिच्युतैः । कृतान्तकिङ्कराश्चक्रुर्दण्ड-कन्दुककौतुकम् ॥२९४॥ ये तरस्वितया तेरुर्भटा: सङ्गरसागरम् । आसन् रुधिरवाहिन्यस्तेषामप्यतिदुस्तराः ।।२९५।। 15 D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy