SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः ] कौ युवां ? संश्रितौ किं वा, मौनध्यानधनं जिनम् ? । कर्ता किमर्थः कार्यं वामित्युक्तौ भोगिभूभुजा ||२५५।। 44 'तावूचतुश्चतुर्बाहुविक्रमौ भोगिनां विभुम् । सेवैव सेवकैः कार्या, चिन्ता किं तादृशी प्रभोः ? ॥ २५६॥ युग्मम् ॥ एतस्य मौनयुक्तस्य धनमुक्तस्य सेवया । यद् भवेत् तेन नो कार्यमेकः सेव्यो हि मानिनाम् ॥२५७॥ सेविते तत् किमन्यत्र, निर्धनेऽप्यत्र यत् फलम् ? । दीपे क्व तज्जगद्दीपे, मेघच्छन्नेऽपि यन्महः ? " ॥ २५८ ॥ तयोः फणिपतिः प्रीतः, प्रज्ञप्तिप्रमुखां ददौ । पाठसंसिद्धविद्याष्टचत्वारिंशत्सहस्रिकाम् ॥२५९॥ विद्याः किलैता वैताढ्यमेखलादक्षिणोत्तरे । प्रभावं प्रथयिष्यन्ति, भवतोरित्युवाच च ॥ २६०॥ प्रभुप्रभावसम्प्राप्तविद्यौ द्यौजसाविमौ । गतौ वैताढ्यमावेद्य, पितृभ्यां भरताय च ॥ २६१॥ §§ वर्षं वसुन्धराहारो, निराहारोऽप्यथ प्रभुः । भ्रमन् बहुषु देशेषु, क्षुधाक्षामाकृताकृतिः ॥२६२॥ अवधिज्ञानतो ज्ञात्वा तदा पारणकारणम् । पुरं गजपुरं प्राप, द्विपस्तप्त इवांड्रिपम् ॥ २६३॥ युग्मम् ॥ तत्र बाहुबलेः पौत्रः, स्वप्ने सोमप्रभात्मभूः । श्रेयांसो धूसरं मेरुं, क्षीरैरक्षालयत् तदा ॥२६४|| प्रापि सोमप्रभेणापि, स्वप्नः किल महाभटः । रिपुभ्योऽमोचि रोचिष्णुः, श्रेयांसेनाद्भुतश्रिया ॥२६५॥ अदर्शि भास्करः स्वप्ने, श्रेष्ठिनाऽपि सुबुद्धिना । अतिभास्वान् किल भ्रष्टैः करैः श्रेयांसयोजितैः ॥२६६॥ विचाराय प्रगे सोमप्रभक्ष्मापसभान्तरे । स्वप्नार्थं तेष्वजानत्सु, मिलितेषु समन्ततः ॥ २६७॥ १. प्रभः क्ष्मा खंतासं० पातासं० ॥ [ ६९ D:\maha-k.pm5 \ 2nd proof 5 10 151 20 25
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy