SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः ] मल-मूत्रादिपात्रेषु, गात्रेषु मनुजन्मनाम् । सचेतसामसावस्तु, , वस्तुतः कैव काम्यता ॥२०३॥ अस्थिखण्डेषु दन्तेषु, कुन्दसुन्दरतामतिम् । मलक्षेत्रेषु नेत्रेषु, नीलोत्पलदलभ्रमम् ॥२०४॥ श्लेष्मादिदोषवृक्षाणां कानने वनितानने । सुधांशुबुद्धिं बध्नन्ति, धिगमी मोहमोहिताः ॥२०५॥ युग्मम् ॥ किञ्चात्र चक्रि- शक्राद्यैरप्यनाक्रान्तविक्रमे । नित्यमत्यन्तमुद्युक्ते, मृत्यौ स्वैरिणि वैरिणि ॥ २०६॥ जरायां रूपसर्वस्वहरायामस्खलद्गतौ । यौवनं वनवद् भस्मीकुर्वत्यां पलितच्छलात् ॥२०७॥ अशेषसुखसन्तानकाननाशनिसन्निभे । विविधव्याधिसम्बन्धे, बाधामाधातुमुद्धते ॥२०८॥ विभवे विघ्नसङ्घातघातसम्पातकातरे । उत्पातवातनिर्धूतपताकाञ्चलचञ्चले ॥२०९॥ संसारचारकक्षिप्तो, महामोहतमोहतः । ध्वस्तालोकः कथं लोकः, क्रीडारसवशंवदः ? ॥२१० ॥ पञ्चभिः कुलकम् ॥ ॥२११ ॥ ततः संसारकारान्तर्निवासं प्रति सम्प्रति । विरज्य युज्यते मुक्तेरध्वन्यध्वन्यतैव मे' तदा पदान्तिकप्राप्तैरथ लोकान्तिकैः सुरैः । समयज्ञोऽपि कल्पज्ञैर्व्यज्ञप्यत जगत्पतिः ॥ २१२ ॥ राज्यवत् प्रथमं नाथ !, धर्मतीर्थं प्रवर्तय । कृतिन् ! कृत्यं जगज्जन्तुहितस्मर ! जितस्मर ! ॥ २१३ ॥ इति विज्ञप्य यातेषु, तदा तेषु जगत्पतिः । आनन्दी नन्दनोद्यानात् सदः सदनमासदत् ॥ २१४॥ , अथाकार्य तदा हर्षभरतो भरतं सुतम् । समं समस्तसामन्त-बाहुबल्यादिनन्दनैः ॥२१५॥ D:\maha-k.pm 5 \ 2nd proof [ ६५ 5 10 15 20 25
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy