SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः ] सारो मधुरसैरन्तरुद्भिन्नमधुभाण्डवत् । मधुपानां कलकलैर्व्याकुलो बकुलोऽभवत् ॥१७७॥ पुष्पोल्लासैः सहासेव, सगीतेवालिनिःस्वनैः । वधूरिव मधून्मत्ता, वनलक्ष्मीरलक्ष्यत ॥१७८॥ हल्लीसकलयाद् वल्लीर्वेल्लत्पल्लवपाणिभिः । अनीनटन्नटाचार्यकलया मलयानिलः ॥ १७९॥ तदोत्कण्ठितचेतोभिः, प्रेरितो भरतादिभिः । जगाम जनितानन्दं, नन्दनं नाभिनन्दनः ॥ १८०॥ पिकीनां पञ्चमोच्चारैर्भृङ्गीसङ्गीतनिःस्वनैः । असमैः कुसुमैर्भर्तुर्वनश्रीः स्वागतं व्यधात् ॥१८१॥ पुष्पवेश्मकृतावासे, पुष्पभूषणभूषिते । तत्र पुष्पासनासीने, पुष्पमास इव प्रभौ ॥१८२॥ यशोभिर्वासिते विश्वे, विश्वतः स्वामिनाऽमुना । किमेतैरिति पुष्पाणि, चिन्वन्ति स्म विलासिनः ॥१८३॥ युग्मम् ॥ अस्त्रप्रपञ्चं पञ्चेषोरन्यन्न हि सहामहे । इतीव पुष्पावचयं, रचयन्ति स्म सुभ्रुवः ॥ १८४॥ कोऽपि प्रियास्तनस्तम्बे, स्तम्बेरममिव स्मरम् । बबन्ध निदधत्पुष्पमालामालानसन्निभाम् ॥१८५॥ प्रियोपनीतं सावज्ञं, श्वासैर्भून्मासम् भस्मसात् । इतीव कुसुमं कान्ता, नासिकान्तादपातयत् ॥१८६॥ पाणिः पुष्पाणि चिन्वत्याः, कस्याश्चित् कोमलाङ्गुलिः । उच्चैश्चुचुम्बे रोलम्बकुटुम्बैरम्बुजभ्रमात् ॥१८७॥ कपोलेऽताडयत् काञ्चिदुद्यत्पल्लवपाणिना । अशोकः पादघातस्य, कृतप्रतिकृतौ कृती ॥१८८॥ लताभ्यः पुष्पसर्वस्वं हृत्वा यात्यङ्गनाजने । स्वनन्तोऽनुपदीभूता, भृङ्गास्तदुपजीविनः ॥ १८९॥ D:\maha-k.pm5\ 2nd proof [ ६३ 5 10 111 15 20 25
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy