SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ [६१ तृतीयः सर्गः] $पुनरेकोनपञ्चाशत्पुत्रयुग्मानि जीवसूः । असूत भूतलस्यूतमङ्गलानि सुमङ्गला ॥१५२।। तदा च स्वामिनो दानाद्भुतादिव विलज्जितैः । कल्पद्रुमैरदृश्यत्वं, तैर्जग्मे युग्मधर्मिणाम् ॥१५३॥ मिथोऽथ मिथुनैः कालयोगात् कलिकदर्थितैः । एत्य विज्ञापित स्वामी, समन्तादसमञ्जसम् ॥१५४।। ज्ञानत्रयततो वाचं, ततो वाचंयमाग्रणीः । ऊचे भो ! भूपतिः शास्ति, न्यायवातिवर्तिनः ॥१५५।। सोऽर्ग्यतामिति तैरुक्ते, पिता दातेति सोऽब्रवीत् । नाभिनाऽपि समादिष्टं, भूयस्तं भूपमभ्यगुः ॥१५६।। वाचा तस्याभिषेकाय, विवेकायत्तचेतसः । ते जग्मुर्युग्मिनस्तूर्णं, पयसे नयसेविनः ॥१५७।। तदा चासनकम्पेन, शक्रोऽप्यवधिबोधितः । कालं मत्वाऽभिषेकस्य, प्रभोरभ्यर्णमभ्यगात् ॥१५८।। क्लृप्तकल्याणवेद्यन्तः, सिंहासनजुषः प्रभोः । चक्रे शक्रस्ततो राज्याभिषेकं तीर्थवारिभिः ॥१५९॥ गङ्गावीचीवरैः प्रीतश्चीवरैस्तं शचीवरः । विभुं व्यभूषयद् विश्वभूषणं भूषणैरपि ॥१६०।। युग्मान्यप्यब्जिनीपत्रैस्तोयमानीय चिक्षिपुः । भूषितस्य विभोर्योग्यं, न मूर्नीति पदाब्जयोः ॥१६१।। तानि मत्वा विनीतानि, मिथुनानीति नीतिमान् । धनदेन विनीताख्यं, शक्रः पुरमचीकरत् ॥१६२॥ विस्तारा-5ऽयामसम्पर्णनव-द्रादशयोजनाम । अयोध्येत्यन्यनामानं, स दिव्यां नगरी व्यधात् ॥१६३।। 15 १. सोऽवदत् खंता० पाता० ।। २. °भ्ययुः खंता० ॥ ३. पात्रै खंता० ।। ४. 'तिवित् खंता० पाता० ॥ D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy