SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ५८ ] [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् रूक्षाङ्गं गन्धकाषाय्या, व्यालिम्पन्नथ ते विभुम् । पात्रिकान्यस्तगोशीर्षश्रीखण्डद्रवकर्दमैः ॥ ११३॥ अभ्यर्चितोऽङ्के दध्रेऽथ, प्रभुरीशानवज्रिणा । सौधर्माधिपवद् भक्त्या, मूर्त्तीः पञ्च वितन्वता ॥ ११४॥ शृङ्गोच्छलज्जलान् दिक्षु, चतुरश्चतुरो वृषान् । विधाय विदधे स्नात्रं, सौधर्मेन्द्रोऽप्यथ प्रभोः ॥११५॥ पूजा-विलेपना-कल्पैरनल्पामोदमेदुरः । विभुं विभूषयामास, दासवद् वासवः स्वयम् ॥ ११६॥ ततश्च पृथिवीपीठविलुठन्मौलिमण्डलः । §§ नमस्कृत्य जगन्नाथं, हृष्टस्तुष्टाव वासवः ॥ ११७॥ "नमस्ते विश्वनाथाय, विश्वानन्दप्रदायिने । विश्वोत्तरचरित्राय, विश्वताताय तायिने ॥११८॥ श्रीयुगादिजगन्नाथ !, कृतावतरणे त्वयि । अद्याभूद् भरतक्षेत्रं, पवित्रं त्रिदिवादपि ॥ ११९॥ गते काले महामोहमेघव्यूहतमोमये । दिष्ट्या दृष्टा भवन्मूर्तिर्नेत्रकैरवकौमुदी ॥१२०॥ अस्मिन् जन्मनि मन्येऽहं धन्ममद्यतनं दिनम् । यत्र त्वत्पदपद्माभ्यां, शिरः सुरभितं मम" ॥१२१॥ श्रीजिनेश ! दिनेशस्त्वमपूर्वप्रथितोदयः । उर्व्यां सर्वज्ञ ! कुर्वीथाः, शाश्वतं सुदिनोत्सवम् ॥१२२॥ SS ईशानेशादथो नाथं, गृहीत्वा पञ्चरूपभाक् । यथाऽऽगतं सुधर्मेन्द्रः, सूतिकासदनं ययौ ॥१२३॥ विनिवृत्त्य प्रतिच्छन्दं विभुं तल्पे निवेश्य च । वाससी कुण्डले चात्र, मुमुचे नमुचेरिपुः ॥ १२४॥ अस्तन्यपाननिष्ठस्य, निजाङ्गुष्ठशिखालिहः । सुधा सुधाभुजां भर्त्रा, न्यधायि स्वामिनोऽङ्गुले ॥१२५॥ १. दुरैः खंता० ॥ D:\maha-k.pm5\ 2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy