SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः ] भद्रा नवमिका सीता, एकनासा पृथिव्यथ । इलादेवी-सुरादेवी-पद्मवत्य इति श्रुताः ॥७४॥ उदीचीरुचकादष्टावागता दिक्कुमारिकाः । प्रणम्य देवं देवीं च, चामराणि करे दधुः ॥७५॥ वारुणी पुण्डरीका च, हासा ह्रीः श्रीरलम्बुसा । ख्याताः सर्वप्रभा मित्रकेशी चेत्यभिधानतः ॥७६॥ अष्टाष्टदिक्कुमार्यस्ताः, पौरस्त्यरुचकादितः । विज्ञप्य पूर्ववद् देवीं, दिक्षु पूर्वादिषु स्थिताः ॥७७॥ निपीतस्फीतपीयूषपूरोद्गारवरैः स्वरैः । तेनुर्जिनगुणग्रामगानमानन्दमन्दिरम् ॥७८॥ दशभिः कुलकम् ॥ विदिशारुचकादेत्य, चतस्रो दिक्कुमारिकाः । नत्वा देवं च देवीं च, गायन्त्यो दीप्तदीपकाः ॥७९॥ सतेरा चित्रकनका, चित्रा सौत्रामणी तथा । विज्ञप्य पूर्ववत् तस्थुरैशान्यादिविदिक्षु ताः ॥८०॥ युग्मम् ॥ चतस्रो दिक्कुमार्योऽथ, रुचकद्वीपतोऽभ्ययुः । सुरूपा - रूपिकावत्यौ, रूपा - रूपांसिके तथा ॥८१॥ चतुरङ्गुलतो बालनालं छित्त्वा न्यधुर्दरे । तत्र रत्नादिना पूर्णे, दूर्वया पीठिकां व्यधुः ॥८२॥ सिंहासन- चतुःशालजुषस्त्रीन् कदलीगृहान् । चक्रुश्च मूलप्रासादात्, प्राचीनोत्तर - दक्षिणान् ॥८३॥ अभ्यङ्गमुभयोश्चक्रुश्चतुःशालेऽथ दक्षिणे । लक्षपाकेन तैलेन, दिव्यमुद्वर्तनं च ताः ॥८४॥ संस्नप्य प्राक् चतुःशाले, लिप्त्वा गोशीर्षचन्दनैः । ताश्च व्यभूषयन् दिव्यचेला-ऽलङ्करणैरुभौ ॥८५॥ ताश्चोत्तरचतुःशालपीठमानीतयोस्तयोः । हुत्वा हिमाद्रिगोशीर्षं, रक्षापोट्टलिकां न्यधुः ॥८६॥ १. °रचरैः वता० ॥ D:\maha-k.pm5 \ 2nd proof [ ५५ 5 10 15 20 25
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy