SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ 1 5 [धर्मकल्पद्रुमः मत्पृष्ठे त्वं जलं पीत्वा, स्थित एव विभाव्यसे । दुःखस्योपरि यद् दुःखं, पात्यते मेऽग्रतोऽग्रतः ॥५१६॥ पर्वं पितवियोगश्च. पश्चात सागरपातनम । प्रियावियोग एतत् तु , किं त्वया विदधेऽधुना ? ॥५१७।। यतः- अघटितं घटनां नयति ध्रुवं, सुघटितं क्षणभङ्गरताकुलम् । जगदिदं कुरुते सचराचरं, विधिरहो बलवानिति मे मतिः ॥५१८॥ विलपन्निति दुःखात् स, पुनरेवमचिन्तयत् ।। मुषिता दुःखिता ये च, तेषां वै पार्थिवो गतिः ॥५१९॥ दुर्बलस्य बलं राजाऽतस्तं विज्ञापयाम्यहम् । अन्यथा कार्यसिद्धिर्मे, भविष्यति कदापि न ॥५२०।। यशोधवलराजानं, प्रत्यूचे धर्मदत्तकः । इति ध्यात्वा समुत्थाय, राजन् ! पार्वे तवागतः ॥५२१॥ राजन्नत्रैव वास्तव्यः, श्रीपतिश्रेष्ठिनः सुतः । धर्मदत्त सोऽहमेव, रावार्थमेष आगतः ॥५२२।। मत्कथा स्वर्णमूर्तेश्चोत्पत्तिस्ते कथिता मया । पञ्चमो लोकपालस्त्वं, यथा रुचिस्तथा कुरु ॥५२३।। यतः दुष्टस्य दण्डः स्वजनस्य पूजा, न्यायेन कोशस्य च सम्प्रवृद्धिः । अपक्षपातोऽर्थिषु राष्ट्ररक्षा, पञ्चैव यज्ञाः कथिता नृपाणाम् ॥५२४॥ शत्रूणां तपन: सदैव सुहृदामानन्दनश्चन्द्रवत् , पात्रापात्रपरीक्षणे सुरगुरुर्दानेषु कर्णोपमः । नीतौ रामनिभो युधिष्ठिरसमः सत्ये श्रिया श्रीपतिः, स्वीये सत्यपि पक्षपातसुभगः स्वामी यथार्थो भवेत् ॥५२५॥ इति श्रीवीरदेशनायां श्रीधर्मकल्पद्रुमे मुख्यचतुःशाखिके प्रथमदानशाखायां धर्मदत्तकथासंयुते श्रीचन्द्रयशोनृपाख्याने द्वितीयः पल्लवः समाप्तः ॥२॥ 20
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy