SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 f ६२] [ धर्मकल्पद्रुमः साहसं हृदि धृत्वाऽथ, निव्विकल्पेन चेतसा । धर्म्मदत्तेन सा बाला, पृष्टा त्वं काऽसि सुन्दरि ! ? || ३६९ || तया पृष्टः स कोऽसि त्वं, मानवोऽहं नरोऽवदत् । तयोक्तं मानवी चाहं, कुमारः पुनरब्रबीत् ॥३७०॥ कुतोऽत्र विषमेऽरण्ये, तिष्ठस्येकाकिनी कनी ? | साऽवादीद् देवयोगान्मे, विद्यते विषमा गतिः ॥३७१॥ कुमारः प्राह हे भद्रे ! कथं ते विषमा गतिः ? । साऽवोचत् श्रूयतां मित्र, ! कथा मे चित्रकारिणी ॥३७२॥ वार्ध्यर्धे सिंहलद्वीपेऽस्ति पुरं कमलाभिधम् । तत्र सत्यार्थनामासीद् धनसारो वणिग्वरः || ३७३ ॥ धनश्रीति प्रिया तस्य, कृष्णस्य कमला यथा । रूपलावण्यसम्पूर्णा, नारीजन शिरोमणिः ||३७४ | यतः - अनुकूला न वाग्दुष्टा, दक्षा साध्वी पावती । एभिरेव गुणैर्युक्ता सा स्त्री लक्ष्मीर्न संशयः ॥ ३७५॥ तत्कुक्षिसम्भवा पुत्री, पवित्रीकृतमानसा । अहं धनवती जाता, प्राणेभ्योऽप्यतिवल्लभा ॥ ३७६ ॥ सा शिक्षितसर्वकला, क्रमात् सम्प्राप्तयौवना I पित्रा दृष्टा चिन्तितञ्च, वरयोग्याऽभवत् सुता ||३७७|| गाहा– जायाइ हवइ सोगो, वड्ढन्तीए य वड्ढए चिन्ता । परिणीयाए दण्डो (?) सुया समा वेयणा नत्थि ॥३७८॥ [ ] यतः - प्रार्थना न कृता येन, जाता यस्य न कन्यका । स्वाधीना यस्य वृत्तिश्च सुखं जीवन्ति ते त्रयः ॥ ३७९ ॥ तदा मे जनकेनैवं, भूयोऽपि हृदि चिन्तितम् । भाग्यवान् यो गुणैर्युक्तस्तस्यैषा दीयते सुता ||३८०॥ जातिरूपवयोविद्या, आरोग्यं बहुपक्षता । उद्यमो वृत्तयुक्तत्वमष्टावेते वरे गुणाः ॥ ३८१ ॥
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy