SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 4] यतः उद्यमं कुर्व्वतां पुंसां, फलं भाग्यानुसारतः । समुद्रमथनाल्लेभे, हरिल्लक्ष्मीं हरो विषम् ॥३२२॥ यत् स्वल्पं न्यायधर्मेण प्राप्यते तद् घनं भवेत् । घनं त्वन्यायमार्गेण, तद्वित्तमचिराद् व्रजेत् ॥३२३॥ अन्यायोपार्जितं वित्तं, क्षणं नैवावतिष्ठति । अत्रोदाहरणं श्रेष्ठी, काशीवासी धनावहः || ३२४|| तथाहि - पुर्य्यां वाणारसीनाम्यां, कुशलः सर्व्वकर्मसु । धनाढ्यो घृतकश्रेष्ठी, वसति स्म धनावहः ॥ ३२५॥ अन्येद्युग्रमनारीभ्यः, प्राज्यमाज्यं धनावहः । अङ्करेखाविपर्यासात्, सपादं जगृहे शठः ॥३२६|| स दध्यौ चेतसि परमन्यायद्रविणं भृशम् । न तिष्ठति तदेतद्राग्, व्ययिष्ये वल्भनादिषु ॥३२७॥ गोधूमघृतखण्डाद्यमर्पयित्वाङ्गजन्मनः । प्रोक्तं स्वजननीपाश्र्वात्, घृतपूराणि कारय ॥३२८॥ सा वक्तनिपतल्लालं, घृतपूराणि हर्षिता । यावच्चकार मध्याह्ने, तावदागात् सुतापतिः ॥ ३२९॥ सहायसहितं सापि, बहुमानं सगौरवम् । भोजयामास सरसैर्घृतपूरैः पुराकृतैः ॥३३०॥ २ उक्तञ्च - तिया तिन्नि उ वल्लह, कलिकज्जलसिन्दूर । अन्न वि तिन्नि वि वल्लह दूधजमाईतूर ॥ ३३१॥ [ ] भुक्त्वा तस्मिन् गते ग्रामं, हट्टात् श्रेष्ठी समागतः । स्नानस्य देवतार्चाया, मनोरथमथाकरोत् ॥३३२॥ सा भ्रमं घृतपूराणां, रक्षन्ती प्रियमालपत् । मध्यन्दिनमतिक्रान्तं, मक्षु भुङ्क्ष्व बुभुक्षितः ||३३३|| १. भोजनादिषु । २. स्त्रियाः । [ धर्मकल्पद्रुमः
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy