SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३४] 10 [धर्मकल्पद्रुमः पक्षिणा वज्रतुण्डेन, चञ्च्वा च घातितो मुनिः । यक्षराक्षससर्पणां, रौद्ररूपैश्च भापितः ॥३८०।। एवं स क्षुभ्यमाणोऽपि, ध्यानान्न क्षुभितो मुनिः । दृष्ट्वा तस्य क्षमां देवः, स्वयं तत्याज मत्सरम् ॥३८१।। उपदेशान्मुनेर्देवः, प्रतिबोधमवाप सः । सम्प्राप शुद्धसम्यक्त्वं, भवे कस्मिन् गतः शिवम् ॥३८२॥ चन्द्रोदयोऽपि राजर्षिः, कृत्वा ध्यानं सुभावतः । अवाप केवलज्ञानं, ययौ च निर्वृति क्रमात् ॥३८३॥ यथौषधं भावनाभि वितं गुणकृद्भवेत् । भावयुक्तस्तथा धर्मः, प्राणिनां फलदो मतः ॥३८४॥ यतः- दानशीलतपःसम्पद् , भावेन भजते फलम् । स्वादः प्रादुर्भवेद्भोज्ये, किं नाम लवणं विना ? ॥३८५॥ सम्प्राप केवलज्ञानं, भरतो भावनाबलात् । मृगोऽपि च ययौ स्वर्गं, बलदेवर्षिसंयुतः ॥३८६॥ एवं चतुर्थशाखायां, भावोपरि कथा मया । चन्द्रोदयनरेशस्य, प्रोक्ता वैराग्यकारिणी ॥३८७॥ इत्यागमगच्छे श्रीपूज्यपरमगुरुश्रीश्रीश्रीमुनिसिंहसूरितत्पट्टे श्रीशीलरत्नसूरितत्पट्टाम्बुजदिनकरश्रीश्रीश्रीआणन्दप्रभसूरितत्पट्टविभूषणनिजितसमस्तदूषण श्रीमुनिरत्नसूरिः तत्पट्टालङ्कारश्रीश्रीश्रीआणन्दरत्नसूरीश्वरविजयवान्ाज्ये श्रीमत्श्रीमहोपाध्यायश्रीमुनिसागरतत्शिष्यपण्डितश्रीउदयधर्मगणिविरचिते पं० श्रीधर्मदेवगणिशोधिते इत्यागमोक्ते महाकाव्ये श्रीवीरदेशनायां धर्मकल्पद्रुमे चतुर्थभावनाशाखायां चन्द्रोदयनृपाख्याने अष्टमः पल्लव: चतुर्थवैराग्यशाखा च समाप्ता ॥८॥ इत्यागमिकोदयधर्मगणिरचितो धर्मकल्पद्रुमः समाप्तः ॥ 20
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy