SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ३४] [धर्मकल्पद्रुमः अपि लभ्यते सुराज्यं, लभ्यन्ते पुरवराणि रम्याणि । न हि लभ्यते विशुद्धः, सर्वज्ञोक्तो महाधर्मः ॥२२४॥ दुष्प्रापं प्राप्य तत्सर्वं, चिन्तामणिसमं सदा । रक्षणीयं प्रयत्नेन, प्रमादाभिधतस्करात् ॥२२५॥ इष्टं यद्यच्च संसारे, रम्यं चाप्यस्थिरं हि तत् । इत्थं ज्ञात्वा बुधैर्धर्मः, सेव्यो बलिनरेन्द्रवत् ॥२२६॥ तथाहि- पश्चिमे श्रीविदेहेऽस्ति, विजयो गन्धिलावती । पुरी चन्द्रप्रभा तत्र, स्वर्गभूमिसमा सदा ॥२२७।। अकलङ्कोऽभवत् तस्यामकलको महानृपः । चन्द्रवद्यः सदा सौम्यो, यस्य वाणी सुधासमा ॥२२८॥ सुदर्शनाऽभिधा भार्या, तस्यादर्शसमोज्ज्वला । बलिनामा तयोः पुत्रो, बालत्वे सबलो बुधः ॥२२९।। विंशतिं पुर्व्वलक्षाणि, युवराज्ये स संस्थितः । चत्वारित्पूर्खलक्षाः, पैत्र्यं राज्यमपालयत् ॥२३०॥ तदा श्रीसुव्रताचार्यसमीपे श्रावकव्रतम् । स जग्राह दिवारात्रौ, चक्रे सुकृतमुत्तमम् ॥२३१।। प्रासादप्रतिमादीनोद्धारश्रीसङ्गभक्तिभिः । रथयात्रादिकैः सोऽभूज्जैनधर्मप्रभावकः ॥२३२॥ श्राद्धधर्मक्रियायुक्तः, सोऽन्यदा पक्षिकादिने । उपोषितः सर्व्वरात्रौ, कायोत्सर्गे स्थितः स्थिरः ॥२३३॥ तृतीयप्रहरप्रान्ते, भावयन् शुभभावनाम् । अनित्यतास्वरूपञ्च, सोऽपश्यत् सर्व्ववस्तुषु ॥२३४॥ विद्युल्लताचला लक्ष्मीरायुर्दर्भाग्रबिन्दुवत् । गजकर्णचलं राज्यं, सङ्गमाः स्वप्नसन्निभाः ॥२३५॥ कस्य पुत्राः कलत्राणि, कस्य गेहं धनादिकम् । ममेत्यङ्गी वृथा कृर्यात् , संसारे कोऽपि कस्य न ॥२३६॥ 25
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy