SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ षष्ठः पल्लवः ॥ 10 $$ भूपालश्चक्रवर्ती हलमुशलधरो वासुदेवस्तदन्यो, यो वा विद्याधरेन्द्रः फणिपतिविहिताशेषविद्याप्रसादः । ये चेशा व्यन्तराणां वरभवनसदां ज्योतिषां स्वर्गिणां वा, श्रीतीर्थेशाश्च तेषामपि पदममलैः प्राप्यते पूर्वपुण्यैः ॥१॥ यन्निद्रा क्षयमेति पालयति यद्वेलां जलानां निधियत्तापापदमम्बुदः शमयते यद्दिव्यतः शुध्यते । यद्वृद्धिर्वपुषामुषाः क्षपयितुं भानुर्यदुज्जृम्भते, विश्वं यच्च बिभर्ति भूतनिवह( हं) तद्धर्मविस्फूर्जितम् ॥२॥ यो धीमान् कुलजः क्षमी विनयवान् दाता कृतज्ञः कृती, रूपैश्वर्ययुतो दयालुरशठो दान्तः शुचिस्सत्रपः । सद्भोगी दृढसौहृदो मधुरवाक् सत्यव्रतो नीतिमान् , बन्धूनां निलयो नृजन्म सफलं तस्येह चामुत्र च ॥३॥ अथोचे स्वामिनं शिष्यो, गौतमो गणनायकः । भगवंस्त्वत्प्रसादेन, श्रुतः शीलगुणो जनैः ॥४॥ धर्मकल्पद्रुमे शाखा, तृतीया या तपोमयी । तत्फलं श्रोतुमिच्छामि, भव्याः शृण्वन्तु चापरे ॥५॥ ततो योजनगामिन्या मेघगम्भीरया गिरा । सर्व्वसंशयहारिण्या, प्रोवाच चरमो जिनः ॥६॥ भो भव्या ! नृभवं प्राप्य, कार्यं द्वादशधा तपः । सर्वार्थसाधकं धाम, तेजसां दुःखबाधकम् ॥७॥ तावद् गर्जति कर्मेभो, विभयो भवनोदरे । यावच्चित्तगुहाध्यासी, तपःसिंहो न खेलति ॥८॥ 20
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy