SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ [ २०१ गुणेषु रागो व्यसनेष्वनादरो, रतिर्नये यस्य दया च दीने । चिरं स भुज्याच्चलचामरांशुकाः, सितातपत्राभरणा नृपश्रियः ॥४५१ ॥ राज्ञा सन्तोषिताः पौराश्चौरातङ्कविवर्जिताः । न्यायेन पालिता नित्यं, न कोऽपि पीडितो मनाक् ॥४५२ ॥ पञ्चमः पल्लवः ] तदा तत्पुरवासिन्यः, प्रजाश्चेतस्यचिन्तयन् । अहो प्राक् पुण्यमस्माकं, येनासीदीदृशः प्रभुः ॥४५३॥ इत्थं पालयतो राज्यं, सार्धं भार्याद्वयेन च । तस्यानुभवतो भोगान्, सुखं कालो ययौ बहुः ||४५४।। तत्र जातेषु वर्षेषु, राज्ञः पञ्चशतेष्वथ । राज्ञ्यां कनकमञ्जर्यां, सुतोऽभूत् सिंहविक्रमः ॥४५५॥ जातः प्रवर्धमानोऽसौ, पञ्चविंशतिवार्षिकः । द्वासप्ततिकलोपेतो, रूपेणैव जितामरः ॥ ४५६ ॥ पवित्रो विकसन्नेत्रो, महास्कन्धो महाभुजः । दुर्द्दन्तो दुष्टपापिष्ठो, धम्मिष्ठे धनदोपमः ॥४५७|| सर्व्वसौम्यगुणाधारः, कृपासारः क्षमाधरः । प्रवीण पुण्यकार्येषु सर्वविद्याविशारदः ॥४५८॥ षट्त्रिंशदायुधाभ्यासविज्ञो विज्ञानसागरः । मन्त्रतन्त्रादितत्त्वज्ञो, मुख्यो दक्षेषु दानवान् ॥ ४५९।। सिंहविक्रमनामासौ, कुमार सारविक्रमः । , क्रीडन् विविधक्रीडाभिः, कालं नयति लीलया ||४६०॥ अन्यदा रात्रिशेषेऽथ, गतनिद्रः प्रजापतिः । नमस्कारं स्मरंश्चित्ते, राज्यं सस्मार पैतृकम् ॥४६१ ॥ चतुर्भिः कलापकम् ॥ प्रभाते मन्त्रिसामन्तादीनाञ्च पुरतोऽवदत् । सुतं संस्थाप्य राज्येऽत्र, निजे राज्येऽथ याम्यहम् ॥४६२॥ ईदृशं वचनं श्रुत्वा, प्रोचे परिजनो विभो !। न बालः शोभनो राजा, स्मृत्युक्तं हि विचारय ॥४६३॥ 5 10 15 20 25
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy