SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ पञ्चमः पल्लवः ] एवमन्तः पुरादीनां शिक्षां दत्त्वा यथोचितम् । भारं चारोप्य सर्व्वेषां, भूपोऽभूत् संयमोत्सुकः ॥ ४०२|| तस्मिन्नवसरेऽन्येद्युः, पवित्रः सुचरित्रवान् । पट्त्रिंशद्गुणसंयुक्तो, वियुक्तः पापकर्मतः ||४०३॥ नाम्ना शय्यम्भवः सूरिर्विहरन्नवनीतले । समाययौ पुरे तस्मिन्, शिष्यैः पञ्चशतैर्वृतः ॥ ४०४॥ युग्मम् ॥ गत्वा गुर्वागमः प्रोक्तो, वनपालेन भूपतेः । तच्छ्रुत्वा भूपतिर्हृष्टो, ददौ तस्मै धनं बहु ||४०५ || ततो जहर्ष राजा यत्प्रस्तावे सूरिरागतः । तत्रस्थेन गुरुर्भाववन्दनेन च वन्दितः ||४०६|| ततः स्वमन्त्रिणः सर्व्वान् जनान् नगरवासिनः । सुशिक्षापूर्व्वकं सम्यक्, मुत्कलाप्य यथाक्रमम् ॥४०७॥ पूज्यानपि च सम्पूज्य, दानमानादिभिर्भृशम् । गीतवादित्रनाट्यादिपूजां कृत्वा जिनालये ॥ ४०८ ॥ जिनालयान्नवीनांश्च, जीर्णोद्धारान् विधाय च । सत्साधर्मिकवात्सल्यं, कृत्वा दत्त्वा धनं तथा ॥ ४०९ ॥ " [ १९७ 5 10 15 दीनार्त्तेष्वपि लोकेषु दानं दत्त्वाऽनुकम्पया । " अमारिं सर्व्वभूतेषु, कारयित्वा विशेषतः ॥ ४१०॥ ऋणैर्मुक्तं जनं सर्व्वं कृत्वा ग्रामपुरादिषु । कृत्वाऽन्यद्गृहिधर्मञ्च, कृतार्थोऽभूद्व्रतासौ ॥ ४११॥ पञ्चभिःकुलकम् । 20 सद्दिने शिबिकारूढः, प्रौढोत्सवसमन्वितः । चतुरङ्गचमूयुक्तः, संयुक्तः सचिवादिभि ॥ ४९२ ॥ मस्तके धृतसच्छत्रश्चामरद्वयराजितः । अश्वारूढः क्वचिन्नागारूढश्च स्वेच्छया क्वचित् ॥४१३|| वैराग्यससम्पूर्णो, दीक्षाग्रहणहेतवे । चचालाथ महासेनो, रत्नपालनृपान्वितः ||४१४॥ त्रिभिर्विशेषकम् । 25
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy