SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ 5 10 151 20 25 R] तथाहि - श्रीपुरे चन्दन श्रेष्ठीपुत्री नन्दा गुणैकभूः । [ धर्मकल्पद्रुमः प्रदीपकलिकेवासीद् बालाऽपि कुलमण्डनम् ॥१७८॥ पाणिग्रहणयोग्याया, ग्रामान्तरगतैः समम् । तस्याः पित्रादिभिश्चक्रे, सम्प्रदानं पृथक् पृथक् ॥१७९।। पित्रैकस्मिन् पुरे दत्ता, महेभ्यतनुजन्मनः । पितृव्येन पुनर्मित्रपुत्रस्याऽन्यत्र पत्तने ॥१८०॥ स्वपितुर्नगरे मात्राऽभीष्टसख्याः सुतस्य च । ददे भ्रात्रा पुरेऽन्यत्र, महागुणवते तु सा ॥ १८९ ॥ सर्वेऽपि स्वपुरं प्राप्ताः, कन्यादानं निज निजम् । निर्मितं कथयामासुरन्योऽन्यं हर्षनिर्भरम् ॥१८२॥ विसंवादेषु सर्व्वेषां, स्पर्द्धाबन्धो महानभूत् । यदस्माभिः कृतं कार्यं, प्रलयेऽपि किमन्यथा ? ॥१८३॥ यथावृतवराणाञ्च, लग्नमेकं प्रहित्य तैः । संवाहं कर्तृमारेभे, विवाहाय सविस्तरम् ॥ १८४॥ अथो लग्नदिने प्राप्ते, चत्वारोऽपि वराः समम् । तत्रागता बहिस्तस्थुर्महायानपरिग्रहाः ॥१८५॥ परिणेतुञ्च तां सर्व्वे, सममाजग्मुरुद्धताः । विवदमाना युद्धाय, संनद्धाश्च रुषाऽभवन् ॥ १८६॥ तेषाञ्च युद्धसंरम्भं, पुरुषक्षयकारणम् । पित्रादीनां विरोधञ्च, वीक्ष्य नन्दा व्यचिन्तयत् ॥ १८७॥ धिग् मां यस्याः कृतेऽमीषां, महानर्थो समुत्थितः । मृतायां मयि सर्व्वेषां श्रेयो भवति नान्यथा ॥१८८॥ विचिन्त्यैवं चितां बाह्ये, रचयित्वैकमानसा । सा वह्निं साधयामास, सदुःखं वीक्षिता जनैः ॥ १८९ ॥ तेषामेको वरो वह्निं प्रविवेश तया सह । द्वितीयस्तु विरागेण, दूरदेशान्तरं ययौ ॥ १९०॥
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy