SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ] " इह भवति सप्तरक्तः, षडुन्नतः पञ्चसूक्ष्मदीर्घश्च । त्रिविपुललघुगम्भीरो, द्वात्रिंशल्लक्षणः स पुमान् ॥५४॥ नखचरणपाणिरसनादशनच्छदतालुलोचनान्तेषु । स्याद्यो रक्तः सप्तसु, सप्ताङ्गां स भजते लक्ष्मीम् ॥५५॥ षट्कं कक्षा वक्षः, कृकाटिका नासिका नखास्यमिति । यस्येदमुन्नतं स्यादुन्नतयस्तस्य जायन्ते ॥५६॥ दन्तत्वक्केशाङ्गुलिपर्व्वनखञ्चेति पञ्च सूक्ष्माणि । धनलक्ष्माण्येतानि, प्रभवन्ति प्रायशः पुंसाम् ॥५७॥ नयनकुचान्तरनाशाहनुभुजमिति यस्य पञ्चकं दीर्घम् । दीर्घायुर्वित्तपरः, पराक्रमी जायते स नरः ॥५८॥ भालमुरो वदनमिति, त्रितयं भूमीश्वरस्य विपुलं स्यात् । ग्रीवा जङ्घा मेहनमिति त्रयं लघु महीशस्य ॥५९॥ यस्य स्वरोऽथ नाभी, सत्त्वमितीदं त्रयं गभीरं स्यात् । सप्ताम्बुधिकाञ्चेरपि, भूमेः स करग्रहं कुरुते ॥ ६०॥ इति द्वात्रिंशल्लक्षणानि । विस्तीर्णं हृदयं तथा । छत्राकारं शिरो यस्य, कटी यस्य विशाला च स सौख्यधनपुत्रवान् ॥६१॥ [ धर्मकल्पद्रुमः मयूरगजहंसाश्वच्छ्त्रतोरणचामरैः । सदृशा यत्करे रेखाः, स भोगन् लभते घनान् ॥६२॥ प्रासादपर्व्वतस्तूपपद्माङ्कुशरथोपमाः । ध्वजकुम्भसमा रेखा, हस्तपादे शुभावहाः ॥ ६३॥ नरस्य दक्षिणे पार्श्वे, तिलकं मण्डलं शुभम् । वामे शुभं च नारीणां ज्ञातव्यं हि नराधिप !" ॥६४॥ शास्त्रोक्तलक्षणान्येवं, पुत्राङ्गे वीक्ष्य भूभुजा । जातहर्षेण विप्रोऽसौ, विसृष्टो दानपूर्व्वकम् ॥६५॥ राज्ञाऽसौ लेखशालायां, मुक्तो वर्षेऽथ सप्तमे । नरो हि शोभते नित्यं, कलाविद्यादिकैर्गुणैः ॥६६॥
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy