SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ तृतीय: पल्लवः ] §§ श्रुत्वा दुर्गकदृष्टान्तं, ज्ञात्वा धर्म्मफलं त्विह । उद्यमो धर्म्मकार्येषु कर्त्तव्यो भावतो बुधैः ॥ ३९८ ॥ काव्यम्- भक्तिर्भूरिगुणालये जिनपतौ रक्तिस्तदुक्तागमे, सक्तिः सद्गुरुपर्युपासनविधौ मैत्री परप्राणिषु । सद्दाने च मतिर्गुणार्जनरतिः शिष्टैः सदा सङ्गतिः, सर्वस्योपकृतिः कुकर्मविरतिः कार्या बुधैः सर्वदा ॥ ३९९॥ धर्म्मोपदेशनाप्रान्ते, राज्ञा पृष्टं प्रभो ! वद । धर्मदत्तोद्यमात् स्वर्णपुरुषो मेऽभवत् कथम् ? ॥४००|| कोटयः षोडश द्रव्यमेतस्य नाधिकं कथम् ? | कथ्यतामत्र यो हेतु:, सन्देहो विद्यते महान् ||४०१॥ " इत्थं पृष्टो गुरुर्यावत्, किञ्चिद्वदति तावता । एका मर्कटिका वृक्षादुत्तीर्य परितो गुरुम् ||४०२।। भूयो भूयोऽपि बभ्राम, ननर्त्त च सुहर्षतः । तां दृष्ट्वा विस्मयाद्राज्ञा, पुनः पृष्टो मुनीश्वरः ॥ ४०३|| युग्मम् || पूर्वप्रश्नं प्रभो ! पश्चात्, कथनीयं वदाधुना । भवन्तं परितो हर्षात् कुतो नृत्यति मर्कटी ? ||४०४|| [ १०७ गुरुराह महासत्त्व ! विषमा भवितव्यता | न शक्यते कथयितुं, 'विषमां कर्म्मणां गतिम् ॥४०५॥ एषा मे वानरी भार्या, यस्याः कुक्षिभवा मम । एषा धनवती पुत्री, जामाता धर्म्मदत्तकः || ४०६॥ एतद् धनवती श्रुत्वा सम्यगालोक्य चक्षुषा । उपलक्ष्य निजं तातं, पपात गुरुपादयोः ॥४०७|| सा रुदन्ती भृशं दुःखात्, पप्रच्छ च गुरुं कथम् । माता मे वानरी जाता ?, गुरुरूचे सुते ! शृणु ॥४८॥ १. “तदा ते चन्द्रधवलधर्मदत्तादयो जनाः । प्रबुद्धा जगृहु: केऽपि सम्यक्त्वं च व्रतानि के " ॥ इत्यधिकं प्रत्यन्तरे । 5 10 15 20
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy