SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भानः न्यायाध्ययनम बुद्धिस्तीक्ष्णैव नो शुद्धि ना... तेमनी नुद्धि मात्र तीक्ष्य १ न ecl. मती ह्यपि बभूव सा । શુદ્ધ પણ હતી. અદ્ભુત પ્રતિભા હતી. તો નદીના अद्भुता प्रतिभाऽप्यासी નિર્મળ નીર જેવી પ્રેક્ષા ચ હતી. l૯રા निर्मलाऽपि च धीसरित् ।।१२।। -सङ्घहितम्१. तस्येति शेषः । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~ युक्तं चैतत्, अवधारणकृतो दुर्नयत्वात्, तद्रहितस्य नयत्वात्, स्यात्काराङ्कितस्य च प्रमाणत्वात्। उक्तं च –'सदेव सत् स्यात् सदिति त्रिधाऽर्थो, मीयेत दुर्नीति-नय-प्रमाणे' रित्यन्ययोगव्यवच्छेदद्वात्रिंशिकायाम् ।।२८ ।। ___तथा – 'तदेवमनेकधर्मपरीतार्थग्राहिका बुद्धिः प्रमाणम् । तद्द्वारायात: पुनरेकधर्मनिष्ठार्थसमर्थनप्रवण: परामर्श: शेषधर्मस्वीकारपरिहारद्वारेण वर्तमानो नयः। अयमेव च स्वाभिप्रेतधर्मावधारणात्मकतया शेषधर्मतिरस्कारद्वारेण प्रवर्तमानः परामर्शो दुर्नयसज्ञामश्नुते।' इति न्यायावतारवृत्तौ ।।पृ.८२ ।। तथोक्तमावश्यकसूत्रे मलयगिरीयवृत्तौ - ‘इह हि यो नयो नयान्तरसापेक्षतया स्यात्पदलाञ्छितं वस्तु प्रतिपद्यते स परमार्थत: परिपूर्ण वस्तु गृह्णाति इति प्रमाणे एवान्तर्भवति। यस्तु नयवादान्तरनिरपेक्षतया स्वाभिप्रेतेनैव धर्मेणावधारणपूर्वकं वस्तु परिच्छेत्तुमभिप्रेति स नयः, वस्त्वेकदेशपरिग्राहकत्वादित्यादि । ।पृ.३६९।। उक्तं च दिक्पटैरपि - 'तत्प्रतिक्षेपो दुर्नयः। तदपेक्षो नयः, स्वार्थप्राधान्येऽपि तद्गुणत्वात् । तदुभयात्मार्थज्ञानं प्रमाण'मिति लघीयस्त्रयस्वोपज्ञवृत्तौ ।।४८।। इत्यन्यत्र विस्तरः । सर्वासामपि सूक्तीनां जिनोक्तत्वमित्यपि ध्येयम्, तदन्तरेण तद्विरहात्, उक्तं च, 'न हि सूक्तं किञ्चिदर्हतामुपदेशमन्तरेण जगत्यस्ती'- ति छन्दोऽनुशासने। ___ननु सूपदर्शितो मिथ्येतरविभागः। किन्त्वेतदुर्गमगहनसङ्काशे नयसमूहे शिष्यव्यामोहोऽवश्यंभावी, अर्थगतेरभावात् । तदुक्तं सन्मती - ‘अत्थगइ उ णयवायगहणलीणा दुरधिगम्मा'- त्ति । ततस्तच्छुद्धेतरपरिज्ञानं कथं कार्यमिति चेत् ? शृणु, यत्रैदम्पर्य सिद्ध्यति स आगम परिशुद्धो वेदितव्यः। स च जिनागम एव। ऐदम्पर्यसिद्ध्यभावे त्वन्यथाग्रहात् तदेकदेशो मन्तव्यः। तथोक्तं षोडशकप्रकरणे - ‘ऐदम्पर्यं सिद्ध्यति यत्रासावागमः सुपरिशुद्धः । तदभावे तद्देश: कश्चित् स्यादन्यथा ग्रहणा'-दिति ।।१६-११।। ऐदम्पर्यसिद्धिरन्यथाग्रहश्चान्धगजदृष्टान्तेन वेदितव्यावित्यन्यत्र विस्तरः । एतेन परोक्तहेतोविरुद्ध-व्यभिचारित्वं व्याख्यातम् । किञ्च, अधीतस्वपरसमय: साधुर्जिनवचनयाथार्थ्यं परसमयाऽन्यथाग्रहं च प्रतीत्य जिनवचनबहुमानादिवृद्धेः स्थिरतरदर्शनो भूत्वा तर्कादिपरिकर्मितमतित्वेन जिनागमेषु सच्चिन्ताऽनुप्रेक्षादिना ज्ञानमपि विशुद्धकोटिं नयति। एतेन स्वकीयोपेक्षाक्षेपः परिहृतः। तादृशस्य चारित्रशुद्धिरप्यवश्यंभाविनी, तस्या ज्ञानाऽनुबन्धिनीत्वात्, तथा चार्षम् - ‘पढमं नाणं तओ दया'-त्ति दशवैकालिके ।।४-१०।। न च तथाऽपि प्रमादसम्भवात् व्यभिचारस्ततश्चाप्रवृत्तिरिति वाच्यम्, सर्वत्र सद्धेतावप्यनाश्वासप्रसङ्गात् । गोपाल-प्रयुक्तधूमघटिकानिसृतधूमे वह्निव्यभिचारदर्शनादिति निपुणं विभावनीयम् । वस्तुतस्तु विध्यधीततथाविधात्मसु प्रमादसम्भवोऽपि नास्ति। तथोक्तं – 'प्रमाद्यन्ति शुभात्मानो, न हि ज्ञात्वा मनागपीति त्रिषष्टि० चरिते। अविध्यधीते व्यभिचार इति चेत् ? सत्यम्, किन्तु तदधीतमप्यनधीतम्, तत्फलाभावात्, 'ज्ञानस्य फलं विरति' - रिति वाचकमुख्यवचनात् (प्रशमरतौ), अविधेर्विप्रतिषिद्धत्वाच्च, प्रत्यपायात, तथोक्तम् - 'एसो य सया विहिणा कायव्वो होइ अपमत्तेण। इहरा उ एयकरणे भणिया उम्मायमाइया ।। उम्मायं वा लभेज्जा रोगायंकं वा पाउणे दीहं। केवलिपन्नत्ताओ धम्माओ वा वि भंसेज्जा ।। तर्कशास्त्राभ्यास
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy