SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ चतुर्थो भानुः दर्शनाचारः ११७ शास्त्रीयरागजिनभक्तिभृता नितान्तं, શાસ્ત્રીય રાગ, પ્રભુભક્તિથી અત્યંત ભરેલી એવી ह्यष्टापदस्य वरया परिपूजया च । ઉત્તમ અષ્ટાપદ પૂજા ભણાવવાથી ભક્તહૃદયોમાં चेतोमहोल्लसनकृत् ! इह नीततीर्थ ! અપૂર્વ ભાવોલ્લાસ જગાડનારા, અહીં જ સાક્ષાત્ भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।२३॥ अष्टापE ती ज री हेना। गुरु नुवनलानु ! हुं આપને ભાવથી ભજું છું. ૨૩ ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ कदाचित् युक्त्यनुपपत्तेश्च मतिदौर्बल्यादिनिबन्धनत्वात्, तथाहि कुत्रचित् मतिदौर्बल्यात्, तथाविधगुरुगमविरहात्, ज्ञेयगहनत्वात्, ज्ञानावरणोदयात्, हेतूदाहरणासम्भवाद्वा कुत्रचित् सम्यक् तत्परिज्ञानं न भवति, नैतावता तद्वैतथ्यम्, नायं स्थाणोरपराधः यदेनमन्धो न पश्यतीति । न ह्यनुपकृतपरहितपरायणा लोकोत्तमाः परमात्मानोऽन्यथावादिनो भवन्ति, जितरागादित्वात्, उक्तं च- 'कत्थ य मइदुब्बलेण, तविहायरियविरहओ वा वि । नेयगहणत्तणेण य, नाणावरणोदएणं च ।। हेऊदाहरणासम्भवे य, सइ सुटू जं न बुज्झेज्जा । सव्वन्नुमयमवितह, तहावि तं चिंतए मइमं ।। अणुवकयपराणुग्गहपरायणा, जं जिणा जगप्पवरा । जियरागदोसमोहा य, नन्नहा वाइणो तेणं-ति ध्यानशतके ।।४७-४९ ।। एवं चिन्तयतश्चेतः प्रबलतर्कपुरस्सरमपि परमतश्रवणे न जिनवचनाद्विचलति, आस्तिक्यप्रसादात्, तथोक्तम् - 'आस्तिक्यं तत्त्वान्तरश्रवणेऽपि जिनोक्ततत्त्वविषये निराकाङ्क्षप्रतिपत्ति'रिति स्याद्वादकल्पलतायाम् ।। शास्त्रवा० ९-५ ।। नन्वेतल्लक्षणे काङ्क्षादिविश्रोतसिकारहित इत्युक्तम्, कानि पुनस्तानीति चेत् ? शृणु, काङ्क्षादीनीति सम्यक्त्वातिचाररूपाणि तदूषणानि, तदुक्तम् - 'शङ्का काङ्क्षा विचिकित्सा मिथ्यादृष्टिप्रशंसनम् । तत्संस्तवश्च पञ्चापि सम्यक्त्वं दूषयन्त्यल मिति योगशास्त्रे ।।२-१७।। ___ अथ भवानर्थान्तरसज्ञितनिग्रहस्थाननिगृहीतः। किं तदिति चेत् ? प्रकृतादर्थान्तरं तदनौपयिकमभिधानम्, यथा - अनित्यः शब्दः, कृतकत्वादिति हेतुः । हेतुरिति हिनोतेर्धातोस्तुप्रत्यये कृदन्तं पदम् । पदं च नामाख्यातनिपातोपसर्गा इति प्रस्तुत्य नामादीनि व्याचक्षाणोऽर्थान्तरेण निगृह्यत इति निदर्शितं न्यायकलिकायाम् । तदुक्तं न्यायसूत्रे - 'प्रकृताद र्थादप्रतिबद्धार्थमर्थान्तरम्' इति ।।५-२-७।। ननु प्रकृते किमायातमिति चेत् ? तदेव निग्रहस्थानम्, भवता हि गुरुगौरवसिद्धिहेतुप्रबन्धकार्यं प्रतिज्ञातम्, अथ च सम्यक्त्वलक्षणसुदीर्घचर्चास्फारविस्तरः प्रक्रान्तः, ततश्च व्यक्तमर्थान्तरमिति । मैवम्, तदभावात्, अस्यापि विस्तरस्य गुरुगौरवार्थत्वात्, अविज्ञातेऽर्थे तद्वति तत्प्रयुक्तभावाभिव्यक्तिविरहात्, प्रायो लोकस्य तल्लक्षणोपनिषदनभिज्ञत्वेन तज्ज्ञापनस्यावश्यकत्वात् । ततो हि नियोगतो भविष्यति भव्यहृदयकमलवनोल्लास:, यथा- 'अहो ! महत्यप्यपराधेऽकोपलक्षणोपशमसम्पत्समन्वितास्ते गुरव' इत्यादि । प्रयोगश्चात्र गौरवान्वितास्ते गुरवः, एतादृग्भावसम्पत्समन्वि-तत्वात्। एवं प्रकृतसाधनाद् दोषाभावः । एवमन्यत्राऽपि यथायुक्ति द्रष्टव्यम्, न त्वर्थान्तरशङ्का विधेया। ज्ञापकश्चात्रौपपातिकसूत्रे श्रीवीरप्रवेशप्रस्तावे तपोभेदविस्तरः। वस्तुतस्तु तन्निग्रहस्थानमेव न भवति, यत एतदप्यर्थान्तरं निग्रहस्थानं समर्थे साधने दूषणे वा प्रोक्ते निग्रहाय कल्पेत, असमर्थे वा, न तावत्समर्थे, स्वसाध्यं प्रसाध्य नृत्यतोऽपि दोषाभावाल्लोकवत्। असमर्थेऽपि प्रतिवादिनः पक्षसिद्धौ तत् निग्रहाय स्यादसिद्धौ वा ? प्रथमपक्षे तत्पक्षसिद्धेरेवाऽस्य निग्रहः, न त्वतो निग्रहस्थानात्, द्वितीयपक्षेऽप्यतो न निग्रहः पक्षसिद्धरुभयोरप्यभावादिति परास्तं प्रमाणमीमांसायाम् ।।२-१-३४।। एतेन 'न्याय्यमेतन्निग्रहस्थानम, पूर्वोत्तरपक्षवादिनोः प्रतिपादिते दोषे प्रकृतं परित्यज्यासाधनाङ्गवचनमदोषाद्भावनं चेति ।।पृ.९५ ।। वादन्यायकारवचनं निरस्तम्, असाधनाङ्गवचनादेरपि तत्त्वस्य परिहतत्वाच्चेत्यन्यत्र विस्तः । सम्यक्त्वसर्वस्वम्
SR No.009538
Book TitleBhuvanbhanaviyam Mahakavyam
Original Sutra AuthorN/A
AuthorKalyanbodhivijay
PublisherDivya Darshan Trust
Publication Year
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy