SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ सम्मति• काण्ड ३, गा० ५. सव्यभिचारः, शब्दो नित्या प्रमेयत्वादित्यत्र निर्णीतविपक्षवृत्तिक: अमेयत्वहेतुरनैकान्तिक एव, गगनारविन्दं सुरमि अरविन्दत्वादिस्यत्र हेतुर्न दुष्टा, किन्तु पक्षाप्रसिद्धौवानुमान न सम्मवतीति पक्षासिद्धिस्तत्र पक्षदोष इति । तदेवं सिद्धे च हेतुदोषत्रये तद्रहितत्वा. मिश्चितान्यथाऽनुपपश्येकलक्षपाको हेतुर्गमकोऽभ्युपगन्तव्यः, न तु त्रिलक्षणकः पश्चलक्षणको वा, उक्तदोषमुद्गरप्रहारजर्जरितत्वात् , सोऽपि गमको न साधर्म्यमात्रात्, न वा वैधHमात्रात्, न वा परस्पराननुविधोमयमात्रात्, किन्तु प्रधानगौणभावेन परस्परस्वरूपा. जहात्तिसाधर्म्यवैधर्म्यरूपात् । नन्वेवं तर्हि केवलान्वयिहेतुना केवलव्यतिरेकिहेतुना च कथं साध्यानुमितिरिति चेत् , उच्यते समाधिः, जैनमते नैव कश्चिदेकान्तेन केवलान्वयी, वस्तु. स्वप्रमेयत्वादिरपि यत्र तत्र यदवच्छेदेन वस्तुस्वप्रमेयत्वादिकं तदन्यावच्छेदेन तदभावोऽपीति वृत्तिमदत्यन्ताभावाप्रतियोगित्वलक्षणकेवलान्वयित्वस्य तत्रामावात् , नाप्येकान्तेन कश्चिद् व्यतिरेकी, अन्वयरहितस्य व्यतिरेकस्याप्रसिध्धेः, व्यासरन्यथानुपपनत्वरूपतया तथैः वोपपनत्वरूपतया चाभिधानं भवति, तत्र प्राथमिकी अन्वयव्याप्तिरभिधीयते द्वितीया व्यति. रेकच्याप्तिरिति गीयते, तत्र वस्तुत्वप्रमेयत्वादेाप्तिद्वयसद्भावेऽपि व्यवहारोऽन्वयव्याप्तित एवेति केवलान्वयीति व्यवाहियते, लक्षणाद्यात्मकहेतोश्च व्यवहार इतरभेदसाधने व्यतिरेकब्याप्तित एवेति केवलव्यतिरेकीति व्यवाहियते, तथैवोपपत्तिलक्षणव्याप्तिज्ञानता केवलान्वयिहेतुनाऽनुमितिः,अन्यथानुपपत्तिलक्षणव्याप्तिज्ञानतः केवलव्यतिरेकिहेतुनाऽनुमितिरिति ज्ञेयम्। तारशहेतुरपि नैकान्ततस्मामान्यात्मा,न वा विशेषात्मा,न वा परस्पराननुविद्धोभयात्मा साध्य. साधकः, साध्यमपि नैकान्ततस्सामान्यात्मकं, न वा विशेषात्मकं, न वा परस्पराननुविद्धोभया त्मकं साधयितुं शक्यम् , एकान्तसामान्यात्मकस्य एकान्तविशेषात्मकस्य परस्पराननुविद्धसामान्यविशेषोभयात्मकस्य चार्थस्य पूर्वमेव विस्तरेण निरस्तत्वात् , किन्तु परस्पराजदुत्त्या सामान्यविशेषात्मक एव हेतुस्तदात्मकस्यैव साध्यस्य साधक इत्यभ्युपगन्तव्यमिति ।। ५६ ।। अथ सामान्यमनुगतबुद्धिहेतुत्वेनानुगतस्वरूपम् , विशेषाश्च विभित्रसामग्रीजायमानत्वेन व्यावृत्तबुध्धिहेतुतया च प्रतिव्यक्तिभिन्नरूपा इति तयोस्स्वरूपं मिथो विभिन्नमेव, अत एव परस्परनिरपेक्षमेवेत्यनूय तन्निराचिकीर्षुस्सरिराह दव्यट्टियवत्तव्वं सामण्णं, पज्जवस्स य विसेसो। एए समोवणीया, विभजवायं विसेसेंति ॥ ५७ ॥ " दवट्ठियक्त्तवं सामण्णं " द्रव्यार्थिकवक्तव्यं सामान्यम् , द्रव्याथिकनयमते वक्तव्यं मन्तव्यमभ्युपगमनीयमिति यावत् , विशेषनिरपेक्षं सामान्यमान, यदनुगतबुद्धिविषयः तदेव सद, तद्रूपं च सामान्यमेवेति तदेव सत्, न विशेषा अननुगतत्वात्तेषामित्येवं सामान्यवादित्वात्तस्य, " पअवस्स य विसेसो" पर्यायस्य च विशेषः, पर्यायास्तिक "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy