SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीसम्मतितर्कप्रकरणम् ॥ ॥तृतीयकाण्डम्॥ मंगलाचरणम् सपर्या पर्याप्ता त्रिकरणसमापत्तिविहिता, फलं फुल्लं कर्तुं निखिलदुरितं हर्तुमनिशम् ॥ प्रभोर्यस्य प्राप्ता अगणितजनास्सिद्धिममला:, यत श्रीवीरेशोऽतुलमधुमतीपूर्मुकुटकः ॥ १ ॥ अपूर्वो यो मेघो भविकहृदये वर्षति भृशम्, वचोवारिस्वच्छं जनयति सुधर्माङ्कुरमरम् ।। भया बाल्येऽनल्पप्रणयभरता पूजित इति, स मे हत्क्ष्मां तत्वाऽनुभवरसरम्यां रचयतु ॥ २॥ युग्मम् ॥ एवं परस्परानुस्यवसामान्य-विशेषग्रहणप्रवृत्तदर्शन-ज्ञानस्वरूपद्वयात्मक उपयोग: प्रमाणार्पणया प्रमाणमिति प्रतिपायेदानी तद्विषयभूतो सामान्यविशेषावप्यन्योन्याविनिर्भागस्वरूपाविति प्रतिपादयितुं तृतीयकाण्डं प्रारिप्सुस्मुरिराह-यद्वा दर्शनज्ञानयोः परस्परमविनिर्मागरूपता प्रतिपाद्याधुना सामान्यं विशेषानुगतं विशेषाश्च सामान्यानुगता इति तयोरपि मिथोऽनुस्यूतस्वरूपता प्रतिपादयितुं तृतीयकाण्डं प्रारिप्सुस्मुरिराह सामण्णम्मि विसेसो, विसेसपक्खे य वयणविणिवेसो। दव्यपरिणाममण्णं, दाएइ तयं च णियमेइ ॥१॥ . 'सामण्णम्मि' इदं सत् इदमपि सदित्याधनुगतप्रतीतिविषये सत्ताख्यसामान्ये आत्माऽनात्मपदार्थमात्रे अस्ति अस्तीत्यनुगतप्रतीतिविषयेऽस्तित्वसामान्ये वा — विसेसो' विशेष इदं द्रव्यं नाद्रव्यं इयं पृथिवी न जलादिकमित्येवं व्यावृत्तबुद्धिगोचरो द्रव्यपृथिव्याद्यात्मको विशेषः तथा " विसेसपक्खे य वयणविणिवेसो" ' विशेषपक्षे च वचनविनिवेशः' द्रव्यपृथिवीघटाद्यात्मके विशेषपदार्थं च 'द्रव्यं सत् , पृथिवी सती, घटः पटश्च समित्याउनुगतवचनस्य यद्वा 'द्रव्यमस्ति पृथिव्यस्ति घटोऽस्ति पटोऽस्तीत्याद्यनुगत. "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy