SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ पम्मति• कार, गा• ४३ तमोपगमचिजनुः क्षणभिदानिदानोद्भवाः, श्रुताः बहुतराः श्रुते नयविवादपक्षा यथा । तथा क इव विस्मयो भवतु सूरिपक्षत्रये, प्रधानपदवी धियां क नु दवीयसी दृश्यते ॥ ४ ॥ प्रसह्य सदसत्त्वयोने हि विरोधनिर्णायकम्, विशेषणविशेष्ययोरपि नियामकं यत्र न । गुणाऽगुणविभेदतो मतिरपेक्षया स्यात्पदात्, किमत्र भजनोजिते स्वसमये न सङ्गच्छते ॥५॥ प्रमाणनयसङ्गता स्वसमयेऽप्यनेकान्तधीनयस्मयतटस्थतोल्लसदुपाधिकिर्मीरिता । कदाचन न बाधते सुगुरुसम्प्रदायक्रम, समञ्जसपदं वदन्त्युरुधियो हि सद्दर्शनम् ॥ ६॥ रहस्यं जानते किमपि न नयानां हतधियो, विरोधं भाषन्ते विविधबुधपक्षे बत खलाः । अमी चन्द्रादित्यप्रकृतिविकृतिव्यत्ययगिरा:(रो), निरातङ्काः कुत्राप्यहह न गुणान्वेषणपराः ॥७॥" इति । प्राचामिति-ये नव्यमार्गानभिज्ञाः प्राचां वाचां विमुखविषयोन्मेषसूक्ष्मेक्षिकायां अरण्यानीभयमधिगताः तेषां समयवणिजां विश्वासाय एषा सम्मतिग्रन्थगाथा सुनयविपणि प्राज्यवाणिज्यवीथीत्यन्वयः। सझेपतस्तदर्थस्त्वयम्-ये प्रमातृविशेषा नव्यमार्गानभिदा यन्मार्गानुसरणतः केवलज्ञान केवलदर्शनयोगपद्यक्रमभावित्वैक्यरूपपक्षत्रयाणामपि. पूर्वोक्तमूरित्रयप्रतिपादितानामविरोधभावप्राप्तिःसुखेनोपजायते तथाभूतं नव्यमार्गमनानन्तःप्राची वाचां प्राचीनयोगपद्याद्यभ्युपगन्तसस्त्रियवचसां विमुखविषयोन्मेषसूक्ष्मेक्षिकायाम् आपाततः परस्परविरोधभाक्तत्तत्सरिपक्षप्रतिपाद्यविषयेष्वपि वस्तुगत्या नैव विरोध इति प्रतिपत्तिकृत्तत्तभयगर्भसूक्ष्मविचारणायां नव्यमार्गानभिज्ञत्वादेव अरण्यानीभयमधिगताः अतिगहनतरुगुल्मकण्टकलतादिमयवनमध्योपगतानां तत्पारगमनमर्गमपश्यतां यादृशम रण्यावलोकनतस्करादिप्रभवं भयं भवति तादृशं भयमधिगताः प्राप्ताः, तेषां समयवणिजां जैनागमगतापूर्वतवरत्नपरीक्षाव्यापारपरायणानां, विश्वासाय प्राचां वचनेषु श्रद्धोत्पादनाय स्वनया एव परस्परसापेक्षभावं गता अन्यांशीदासीन्येनैकांशग्राहिणस्स्वनया अर्हत्प्रदशिंतनया एव विपणिः, सुनयेति पाठे तु सुनया एव विपणिः क्रयविक्रयस्थानं तत्र प्राज्यमुत्कृष्टं यद्वाणिज्यं क्रयविक्रयलक्षणं वणिजां कर्म तस्य वीथी-मार्गः, एषा सम्मतिअन्धगाथा यथास्थानं तत्तन्मताधिगतये मया दर्शितेति शेषः ॥ १॥ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy