SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ २२० सम्मति काण्ड २, गा० ३ er से निर्हेतुक इति तन्मतेनोच्यत इति केवलज्ञानस्य केवलदर्शनस्यापि च स्वत एव क्षणान्तरे विनाशात् । यद्वोक्तनयमतेन स्वस्य स्त्र एव नाशक इति केवलज्ञानस्य केवलदर्शनस्य च विनाशे प्रतियोगिन एव हेतुत्वात् द्वितीयक्षणे सस्थादेवेति मावनीयम् । अत्र केवलज्ञानकेवलदर्शने एकात्मनि युगपदुत्पद्येते न वा, केवलज्ञानं स्वसमानाधिकरणकेवलदर्शनोत्पत्तिक्षणोत्पत्तिकं न वेत्यर्थपर्यवसायिनी प्रथमा विप्रतिपत्तिः, केवलज्ञान केवलदर्शने क्रमेणैकात्मनि समुत्पद्येते न वा, केवलज्ञानं स्वसमानाधिकरण केवलदर्शनोत्पत्तिक्षणा वहितपूर्वक्षणोत्पत्तिकं न वेत्यनुगतार्था च द्वितीया इत्याद्या उक्तमतत्रयाणां साधारण्यो विप्रतिपत्तयः । आद्यविप्रतिपत्तौ विधिपक्षो महनीयमान्य पूज्यपाद श्री मल्लवादिसिद्धसेनदिवाकराणाम्, तत्रापि केवलज्ञानं स्वसमानाधिकरण केवलदर्शनसमानकालीनमपि केवलदर्शनाद्भिन्नमेवेति तातपादश्रीमल्लवादिनः । प्रवचनोपनिषद्वे दिवादिमुख्यश्रीसिद्धसेनदिवाकरास्तु तत् केवलदर्शनादभिन्नमेवेति प्राहुः । निषेधपक्षो भगवच्छ्रीजिनमद्रगणिक्षमाश्रमणादीनामिति । द्वितीयविप्रतिपत्तौ चोक्तवैपरीत्येन विध्यंशे निषेधांशे च ज्ञेयम् । नन्वेवं विप्रतिपत्तौ सत्यां किमत्र तत्वं सत्यमित्याशङ्कायां ' यथोद्देशं निर्देश' इति न्यायात्प्रथमं युगपदुपयोगद्वयवादिमतप्रदर्शनायाह मणपजवणाणतो णाणस्स य दरिसणस्स य विसेसो । केवलनाणं पुण दंसणं ति णाणं ति य समाणं || ३ || ५७ ॥ 'मजवणाणतो ' मनःपर्यायज्ञानमन्तं पर्यवसानं यस्य स मनःपर्यायज्ञानान्तः, स कः कस्य चेत्याशङ्कायामाह - ' णाणस्स य दरिसणस्स य विसेसो' ज्ञानस्य च दर्शनस्य च विश्लेषः पृथग्भाव इति साध्यम् । अत्रानुक्तमपि छद्मस्थोपयोगत्वं हेतुर्दृष्टव्यः । तथा च प्रयोगःचक्षुरचक्षुरवधिज्ञानानि चक्षुरचक्षुरवधिदर्शनेभ्यः पृथक्कालानि छद्मस्थोपयोगात्मकज्ञानस्वात् श्रुतमनः पर्यायज्ञानवत्, सङ्केतस्मरणोबुद्धवाच्यवाचकभाव सम्बन्धतोऽर्थस्मरणद्वारा पदज्ञानजन्यतद्वाच्यार्थविषयके तत्तत्पदार्थोपस्थितिद्वारा पदसमूहरूपवाक्यार्थविषयके वा श्रुतज्ञाने यानि चिन्त्यमानपदार्थानुगुणानि संज्ञिपश्चेन्द्रियजीवैः काययोगेन गृहीतानि मनोवर्गणाद्रव्याणि मनोयोगेन च मनस्त्वेन परिणमितानि तत्पर्यायविषयके मनःपर्यायज्ञाने चक्षुरचक्षुरवधिदर्शन पृथक्कालत्व साध्यसिद्धेर्न दृष्टान्तासिद्धिरिति । अत्र दर्शनत्रयपृथकालत्वं कुत्रापि एकस्मिन्नसिसाधयिषितम्, यच्च स्वदर्शनपृथक्कालत्वं सिसाधयिषितं तनोक्तदृष्टान्तयोर्विद्यत इति दृष्टान्ताऽसिध्ध्याऽत्र सावरणत्वं हेतुः कर्त्तव्यः, व्यतिरेकी च प्रयोगः । ननु चक्षुरचक्षुरवधिज्ञानानि स्वस्वदर्शनपृथक्कालानि सावरणत्वात् यचैवं तत्रैवमिति व्यतिरेक्यनुमानेऽपि व्यतिरेकदृष्टान्तीभूते केवलज्ञाने स्वदर्शनपृथकालत्वाभावो हेतुरद्यापि नैव सिद्ध इषि दृष्टान्ताऽसिद्धिस्तदवस्यैवेति चेत्, तर्हि तअन्यत्वमेव हेतुः क्रियताम्, यद् यजन्यं तत्ततः "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy