SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ सम्मति० काण्ड १,या." " सज्ञासु धातुरूपाणि, प्रत्ययाश्च ततः परे । __कार्याद विद्यादनुबन्ध-मेतच्छास्त्रमुणादिषु ॥ १॥" इति। - व्युत्पत्तिपक्षश्च समभिरूढनयाद्विनिर्गत इति तत्प्रकृतिभूतस्स नयो व्युत्पत्तिपक्षावलम्बी सर्वे शब्दाः क्रियानिमित्ताः, धातुजत्वात् , अत एव भिमार्थाः, निमित्तभेदाचार्थभेदो दृष्टः, छत्रिदण्ड्यादिवदित्यभ्युपगच्छति, एवञ्च तन्मते नैमिचिक्येव सज्ञाऽभ्युपगता। हन्तवं पारिभाषिकशब्दस्यानर्थकत्वमापन्नमिति चेदापन्नमेव, किं हन्तेति पूत्कारेण । तदुक्तं तत्चार्थे " पारिभाषिकी नार्थतन्वं ब्रवीति, यदृच्छामात्रप्रवृत्तत्वात्" इति । तथा च येषां नाम्नां व्युत्पत्तिः शास्त्रे विशेषरूपेण न प्रदर्शिता तेषामपि अर्थानुसारेण प्रकृतिभूतान् धातून प्रत्ययांश्च तत्र कार्यानुसारेण अनुबन्धादींश्च कल्पयित्वा साधनं कर्तव्यम् । तदेवं पर्यायशब्दानामपि व्युत्पत्तिनिमित्तक्रियाभेदादवश्यमर्थभेद इत्यतो वर्तमानेनाभिन्नलिङ्गादिनाप्येकेनैव ध्वनिनाऽभिधीयमानोऽर्थस्समभिरूढनये सम्यगुक्तो भवति, नान्यथेति । एवम्भूतनयमतेऽपि यद्यपि तत्तक्रियालक्षणव्युत्पत्तिनिमित्तभेदान्नैमित्तिकेनाप्यर्थेन मिलेन भाव्यमिति घटकुटकुम्भादिशब्दा भिन्नार्था एव, घटनकुटनकुम्भनादिक्रियालक्षणव्युत्पत्ति निमित्तभेदात् , तथापि यदा कदा घटनक्रियायामपि घट एव, यदा कदा कुटनक्रियायामपि कुट एवेति विवक्षितक्रियामुपलक्षणीकृत्य तस्यां सत्यामसत्यां वोपलक्षणविधया तद्विशिष्टं विवक्षितशब्दार्थमभ्युपगच्छति समभिरूढनयः, एवम्भूतनयस्तु ततोऽपि सूक्ष्मेक्षिका. पर्यालोचनतत्पर इति नैवमभ्युपगच्छति, किन्तु व्युत्पत्तिनिमित्तीभूततत्तत्क्रियां विशेषणी. कृत्यैव तत्सत्वकाल एव तद्विशिष्टमर्थ विवक्षितशब्दाभिधेयं मनुते, न वन्यदेति विवक्षितशब्दव्युत्पचिनिमित्तक्रियापरिणतिकाल एव तद्वस्तु, न प्राक् पश्चाद्वा, तथाहि परमैश्वर्यानुभवनकाल एवेन्द्रा, अन्यदाऽनिन्द्रः, इन्द्रोपयोगकाल एव वोपयोगेन्द्रः, तत्क्षणानन्तरं तत्पूर्व वाऽनिन्द्रः, पश्चात्तदुपरमात् पूर्व तदभावात् , पूर्दारणकाले तदुपयोगे वा पुरन्दरः, अन्यदा पुरन्दरो न, प्रतिक्षणातिकामित्वाद्वस्तुनः, यस्मिन् क्षणे योऽर्थोऽनाकारविज्ञानवादे ज्ञानार्थ. योविषयविषयिभावसम्बन्धस्वीकाराद् बुद्धिविषयः साकारविज्ञानवादे विषयविषयिभाव. सम्बन्धो न, किन्त्वाकाराकारिमावसम्बन्धोऽभ्युपगत इति तेन सम्बन्धेन विज्ञानगतत्व. मर्थस्येति बुद्धिस्थो वा तस्मिन्नेव क्षणे स शब्दार्थ इति तेन नयेन शब्दव्युत्पत्तिप्रतिपाद्यक्रियाकाल एव शब्दवाच्योऽर्थोऽभ्युपगतः। न तु सर्वदा, अत एव पदवाच्यप्रवृत्तिनिमित्ताऽभिन्नव्युत्पत्तिनिमित्तक्रियाकालव्यापकपदार्थसत्ताऽभ्युपगमपर एवम्भूतनय इति मनी. षिणस्तनिष्कर्षमाहुः, तथा च घटो नाम घटवाचकयावत्पर्यायशब्दवाच्या शब्दनये एकोऽ. स्येव, सममिरूढेवम्भूतयो त्स्येवेति द्वौ भङ्गो लभ्येते, लिङ्गसङ्ख्याकालकारकपुरुषादिभेदेन शब्दनयो भिन्नभिन्नक्रियाप्रवृत्तिनिमित्तकसञ्ज्ञाभेदेन समभिरूढश्च पूर्वोक्तप्रकारेण भिमकालावच्छिन्नक्रियाभेदेनैवम्भूतश्च भिन्ममर्थमभ्युपगच्छत्तीत्युक्तप्रकारेण भिमसार्थस्यैकशब्दावाच्य "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy