SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ सम्मति• काड , गा० १६ सत्त्वं चार्थान्तररूपं साधारणत्वादिति तद्रूपेणासत्त्वाद्वितीयो मङ्गः, अभेदेन ताभ्यां निर्दिष्टो. घटोऽवक्तव्य इति तृतीयो भङ्गः, तथाहि-यस्सन् स घट इत्येवं सत्रमनूध घटत्वं यदि विधीयते तदा घटत्वस्य सत्वव्यापकत्वात्सर्वेषां सतां घटरूपत्वप्रसक्या घटस्य सर्वगतत्व. प्रसङ्गः, न चायं प्रसङ्ग इष्टापचिरूपत्वेन परिहत्तुं शक्यः, विभिन्न प्रतिभासबोधप्रतिनियत. व्यवहारविलोपापत्तेस्तथाऽभ्युपगमेऽनिष्टत्वाद, तथा योऽसन् स घट इत्येवमसचमनूध यदि घटत्वं विधीयते, तदा विधिस्सन् निषेधोऽसन्निति निषेधरूपस्य प्रागभावादिचतुष्कस्य घटत्वेन व्यासघटत्वप्रसङ्गा, अत्र या कश्चिद्विधिर्भावः स सन् भवतीत्युपदर्शनमात्रमेतत् , तेन भावमात्रस्य विधित्वेऽपि प्रकृते विधीयमानस्य घटत्वस्य भावरूपत्वेन विधित्वं बोध्यम् । अथ घटत्वमनूध सदसच्चे विधीयेते तदा घटत्वं यत्तदेव सदसवे इति घटमात्रं ते प्रसज्ये. यातां, तथा च पटादीनां प्रागभावादीनां चाभावप्रसक्तिरिति प्राक्तनन्यायेन विशेषणविशेष्यलोपात् सन् घट इत्येवमप्यवक्तव्योऽसन् घट इत्येवमप्यवक्तव्यस्स्यात् , यतः सन् घट इति, असन् घट इति, घटः सन्निति, घटोऽसमित्येवं केनापि प्रकारेण घटो वाच्यो न भवति, तस्मादवाच्यः। अनेकान्तपक्षे तु कथञ्चिदवाच्यो, न तु सर्वथा, अमेदवाद. कृततदोषस्य मेदवादेन परिहारादिति न कश्चिद्दोषः । न च भेदैकान्तेऽपि घटत्वमनूष सत्चासत्वयोः समवायविशेषणताभ्यां विधानाभायं दोष इति वाच्यम् , अतिरिक्तसमवायविशेषणतयोर्मानाभावेन भेदैकान्तस्यैवावाच्यत्वादिति ॥ १० ॥ घटस्य प्रतिक्षणमन्यान्यपरिणतिरर्थपर्यायोऽनन्यगामित्वानिजं रूपं, तद्रूपेण सन्चाप्रथमभङ्गः, व्यञ्जनपर्यायस्तु घटशब्दप्रवृत्तिनिमित्वं घटत्वं सकलघटसाधारणत्वादर्थान्तरं तद्रूपेणासत्वाद् द्वितीयो भङ्गः, अभेदेन ताभ्यां निर्देशेऽव्यक्तव्यत्वात्तृतीयो भङ्गा, अत्र यो व्यञ्जनपर्यायस्स घटार्थपर्याय इत्येवं व्यञ्जनपर्यायमनूध यदि घटार्थपर्यायविधिः तदा व्यञ्जनपर्यायोऽर्थपर्याय एवेत्यर्थपर्यायाणां भिन्नत्वात्तदात्मको व्यञ्जनपर्यायो नैक इत्येकानुगतव्यञ्जनपर्यायनिवन्धनानुगतव्यवहारविलोपः। अथ योऽर्थपर्यायस्स व्यञ्जनपर्याय इत्येव. मर्थपर्यायमनूध व्यञ्जनपर्यायविधिस्तदाऽर्थपर्यायो व्यञ्जनपर्याय एवेति व्यञ्जनपर्यायस्य नित्यत्वात्तदात्मकार्थपर्यायस्य नित्यत्वापत्तेरकार्यत्वं स्यात् , घटस्य तु कार्यतयैवानुभवो नाऽकार्यतयेति तथाभूतस्य तस्यामावादवाच्यः, अनेकान्तपक्षे त्वर्थव्यञ्जनपर्यायाभ्यां सम्वासचयोर्युगपत्प्रधानतया विवक्षितयोरभिधातुमशक्यत्वात्कथश्चिदवाच्यः ॥ ११॥ . . यद्वा सश्वमर्थान्तरभूतम् , तस्य विशेषवदेकत्वेनानन्वयिरूपत्वान शब्दवाच्यत्वमिति तद्रपेणावाच्यो घटः, अत्र सत्त्वस्यार्थान्तरत्वविवक्षा पर्यायनयमूलकप्रथमभङ्गाश्रयणकता, अनन्वयित्वश्च तस्यैकमेकत्रैव निरंशमवस्थातुमर्हतीति समाश्रयणेन, अनुगतस्यैव प्रवृत्ति निमित्तत्वाच्छब्दवाच्यत्वमित्यननुगतत्वान शब्दवाच्यत्वमिति बोध्यम् । अन्त्यविशेषो निर्ज "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy