SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ १५० सम्मति० काण्ड १, गा०३६ प्रतीत्या शशीयत्वावच्छिन्नशृङ्ग निष्ठाधिकरणतानिरूपकगोवृत्तित्वाभावपर्यवसानको यश्शशीयत्वेन शृङ्गे गोवृत्तित्वाभावस्तद्विषयिकया सिद्धस्य व्यधिकरणधर्मावच्छिन्नानुयोगिता निरूuarantervastust द्वितीयभङ्गस्समर्थनीय इति चतुर्थपक्षः । तथा चाद्यपक्षे स्वद्रव्याद्यवच्छेदेन घटस्सनेवेत्याद्यभङ्गजन्यस्य घटे स्वद्रव्याद्यवच्छेदेन सच्च प्रकारकनिश्चयस्य सवेऽपि घटासवस्य स्वसमानाधिकरणाभावप्रतियोगित्वलक्षणाऽव्याप्यवृत्तितया तज्ज्ञानास्कन्दितपरद्रव्याद्यवच्छिन्नघटासच्च निश्चयः परद्रव्याद्यवच्छेदेन घटोऽसमेवेति द्वितीयभङ्गजन्यस्स्यादेव तद्वत्तानिश्वयस्य संशयनिश्चय साधारणाऽव्याप्यवृत्तित्वज्ञानानास्कन्दितवदभावप्रकारक बुद्धित्वावच्छिन्नं प्रत्येव प्रतिबन्धकत्वात् प्रकृते तदभावप्रकारक बुद्धिश्व भङ्गघटकैवकारव्यवच्छेद्यस्य येन रूपेण यत्सचं तद्रूपेण तदसच्चस्य ज्ञानात्मिकैव, न तु परद्रव्याद्यवच्छिन्नतदसच्वनिश्चयात्मिकेति तत्सच्चे बाधकाभाव एव, एवं सर्वत्र ज्ञेयम् । द्वितीयपक्षे परद्रव्यादेः प्रमेयत्वस्य च प्रतियोग्यनवच्छेदकत्वात्तदवच्छेदेन घटासत्वनिश्चयः घटसवनिश्चयकालेऽपि पूर्वनीत्या स्यादेव । तृतीयपक्षे चाद्यभङ्गजन्यस्वद्रव्याद्यवच्छिन्नघटसवनिश्चयकालेsपि द्वितीयभङ्गेन परद्रव्यादेर्घटगतसत्वनिष्ठप्रतियोगिताया व्यधिकरणत्वातद्धर्मावच्छिन्नसत्त्वनिष्ठप्रतियोगिताका भावविषयकनिश्रयः पटत्वेन पटोऽस्तीति वाक्यजन्यनिश्चयकाले घटत्वेन पटो नास्तीति वाक्यजन्यघटत्वरूपव्यधिकरणधर्मावच्छिन्नपटनिष्ठप्रतियोगिताकाभावनिश्चयवज्जन्यते तयोः प्रतिबध्यप्रतिबन्धकभावाभावात् । चतुर्थपक्षे तु शशशृङ्गे गोवृत्तित्वं नास्तीत्यादिप्रतीत्या शशीयत्वेन शृङ्गे गोवृत्तित्वाभावविषयिकया सिद्धस्य व्यधिकरणधर्मावच्छिन्नानुयोगितानिरूपका भावस्याप्यवबोधकेन द्वितीयमङ्गेन परद्रव्याद्यवच्छिन्नघटनिष्ठविशेष्यतानिरूपित सच्चनिष्ठप्रतियोगितानिरूप का भावनिष्ठप्रकारतानिरूपक निश्च योsप्युरीकर्त्तव्य इति । न चास्य द्वितीयभङ्गस्यानेकप्रकारेणोपपादनेऽपसिद्धान्तत्वप्रसङ्ग इति वाच्यम्, भगवत्प्रवचनस्य नानाप्रतिपत्तिप्रकार बहुलत्वादिति । अत्राधिकं खण्डखाद्ये पञ्चत्वारिंशच्छ्रलोकटी कातोऽवसेयम् । स्वद्रव्याद्यपेक्षया सन्त्रस्य परद्रव्याद्यपेक्षयाऽसत्रस्येत्येवं युगपत्सच्वासच्चोभयस्य प्राधान्यविवक्षायां तत्प्रतिपादने समर्थमेकं पदं नास्तीति पूर्वमेव विवृतम्, समासवाक्यं विग्रहवाक्यमपि च किञ्चिन विद्यते, तथाहि समासविधावपि न ताद्बहुव्रीहिस्त्र समर्थः, तस्यान्यपदार्थप्रधानत्वेन चित्रगुरित्यादौ विशेष्यविशेषण भावापनयोरेव समासघटकपदार्थयोः समासाऽघटकाऽन्यपदार्थे विशेषणत्वस्य दृष्टत्वेन प्रकृतेऽन्यपदार्थ प्राधान्याभावेन तदसम्भवात् नाप्यव्ययीभावः, तस्य पूर्वपदार्थस्यैव प्रधानतया बोधकताया उपगङ्गमित्यादौ गङ्गासामीप्यादिरूपार्थावबोधाद् वैयाकरणसम्मतत्वेन पूर्वपदार्थमात्रप्रधानक बोधस्य प्रकृतेऽनिष्टत्वेन तस्याऽप्यप्रवृत्तेः, नापि द्वन्द्वः, तस्य तद्धर्मनिष्ठप्रकारतानिरूपित निरवच्छिन्नतद्धर्मिनिष्ठ विशेष्यत्वाऽभिन्नतद्धर्मनिष्ठावच्छेदकता निरूपिततद्धर्मनिष्ठविशेष्यताकत्वे सति धर्मान्तरनिष्ठ प्रकारतानिरूपित निश्वच्छिन्नधर्म्यन्तरनिष्ठ विशेष्यत्वा "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy