SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ सम्मति• काण्ड १, गा. २५ घटोघट इति प्रतीत्यापत्तिस्स्यात् । तस्मादुभयात्मकवस्तुन्येव तत्त्वम् , तथा च वर्तमानभविष्यत्कालावच्छिन्नघटादिव्यक्तेरैक्येऽपि पूर्वापरकालात्मकविशेषणभेदेन कथञ्चिद्भेदस्वी. कारेण विशेषणविशेष्यभावोपपत्तेः स्थास्यन् वर्तमानो घट इति प्रतीत्युपपतिस्स्यादेवेति, न चैकस्मिन् स्थिरे पदार्थे पूर्वापरकालसम्बन्धित्वयोर्विरोधदोषाघ्रातत्वानोपपत्तिरिति वाच्यम् एवं सत्येकस्य परमाणोः परमाणुषट्केन युगपत् संयोगसम्बन्धबलात्परमाणोरपि षट्त्वं स्यात् , तदुक्तम्-" षट्केन युगपद्योगात् परमाणोः षडंशता" इति । तस्मादेकस्य पर. माणोः तद्दिगवच्छेदेन तत्परमाणुना तदन्यदिगवच्छेदेन तदन्यपरमाणुना सह युगपत्संयोगः सम्बन्धवस्थिरस्थापि पदार्थस्य पूर्वोत्तरकालावच्छेदेन पूर्वापरकालसम्बन्धोपपत्ते परापरकालसम्बन्धप्रयोज्याऽपरापरस्वभावभेदो विरुद्धः, येन विरुद्धधर्माध्यासेन भेदापल्या क्षणिकत्वं सिद्धं स्यात् । एतेनेकस्य परमाणोः किं सर्वात्मनाऽपरपरमाणुभिरभिसम्बन्धः, किं वैकदेशेन, आये सम्बन्धिद्वययोरेकपरमाणुरूपत्वापत्या परमाणुमात्रं पिण्डस्स्यात् । द्वितीयविकल्पेऽपि ते एकदेशा देशिभूतपरमाणुस्वरूपाः किं वा तद्भिनस्वरूपा:, आये भिन्नैकदेशानामेवाभावान्नैकदेशेनाभिसम्बन्धः, द्वितीये च ते एकदेशाः परमाणुभिस्सम्बद्धा असम्बद्धा वा, यद्यऽसम्बद्धास्तदा स्वमतक्षतिः, सम्बद्धाश्चेत्तदा सर्वात्मना, एकदेशेन वा, सर्वात्मनाऽभिसम्बन्धपक्षे एकदेशैकदेशिनोरभेदादेकदेशाऽभावान्नैकदेशेनाभिसम्बन्धः पर. माणूनाम् । एकदेशेनैकदेशानामेकदेशिनाऽभिसम्बन्धपक्षेऽपि चैकदेशानां ततो भेदाभेद. कल्पनायां तदवस्थः पर्यनुयोगोऽनवस्था च, न च प्रकारान्तरं दृष्टम् , येन परमाणूनाममिसम्बन्धस्स्यादित्यतोऽनुपलभ्यमानसम्बन्धकल्पनायां प्रमाणाऽभावेन षट्केन युगपत्सम्बन्धात् परमाणोः षडंशता स्यादित्युक्तमापादनमपि न युक्तियुक्तमिति कुचोद्यावकाशोऽपि निरस्ता, परमाणूनां द्रव्यनयेन निरंशतयैवाभ्युपगमेन कात्स्न्येनैकदेशेन वैकपरमाणोः परमाण्वन्तरेणामिसम्बन्धाऽभावेऽपि इमो संयुक्ताविति प्रतीत्यन्यथानुपपत्त्या प्रकारान्तरेणैषां सम्बन्ध इति कल्पनाया एव प्रमाणभृतत्वात् अन्यथा परमाणूनामसम्बद्धानां जलधारणाद्यर्थक्रियाकारि. त्वमेवानुपपन्नं स्यात् । वंशादीनां चैकदेशाकर्षणे तदपरदेशाकर्षणमुपलभ्यमानं न स्यात् । अथाभावप्रयुक्तव्यवधानस्य योऽभावस्तल्लक्षणनैरन्तर्यमात्रादेव संयुक्तप्रतीत्याद्युपपत्तेः किमर्थान्तरसंयोगकल्पनयेति चेत् , मैवम् , तद्भावमुखेन प्रतीयते न स्वभावमुखेनेति तस्य भावरूपत्वे नामान्तर एव विवादात् , तथा च भावमुखेन प्रतीयमानस्य नैरन्तर्यात्मकस्यापि संयोगस्यानभ्युपगमे कार्योत्पत्तिरहेतुका स्यादिति सोऽभ्युपगन्तव्य एव, तस्मात्पूर्वापरकालसम्बन्धयोगेऽपि स्वभावभेदान्नैकान्ततः क्षणिकत्वम्, किन्तु नीलपीताधाकार. समूहालम्बनज्ञाने यथा स्वरूपत एकत्वेऽपि नीलाकारत्वपीताद्याकारत्वरूपविभिन्न स्वभावस्वेनानेकत्वमविरुद्धं भवताऽभ्युपगतं तथैकस्मिअप्यक्षणिकवस्तुनि तत्तत्कालसम्बन्धप्रयुक्ता. परापरस्वभावभेदेन कथञ्चिदनेकत्वमविरुद्धमित्येकानेकस्वरूपतया प्रतीयमाने पदार्थे एकान्त "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy