SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ११४ सम्मति० काण्ड १, गा० ११ 7 वयणपा तातो वा नया विसद्दाओ । ते चैव य परसमया सम्मत्तं समुदिया सवे ।। " २२६५ । इति । ज्ञानात्मका अपि नयास्सर्वे एकान्ततच्चावगाहिपराभिप्रायरूपाः स्वविषयेतर विषयोन्मूलनतत्परा विपरीतप्रत्ययरूपा मिध्यात्मकाः, त एवेतरांशसापेक्ष स्वविषयग्राहका यथावस्थितवस्तुप्रत्ययरूपाः समुदिताः प्रमाणभावं भजन्ते, एतेन प्रत्येकं मिध्यावधारणानां तेषां नयानामन्यनिश्रितसमुदायेऽपि कथं सम्यक्त्वम्, तत्तत्स्वगोचराऽपरित्यागेन तत्रापि तेषां विषयान्तराऽप्रवृत्तेरित्यप्यारेका निरस्ता, यत एकैका अध्यपेक्षितेतरांशस्त्रविषयग्राहकतयैव सन्तो नयाः, तद्व्यतिरिक्तस्वरूपतया स्वसन्तस्त इति सतां तेषां समुदाये सम्यक्त्वे न कश्चिद्दोषः । ननु तत्कालविद्यमानानामेव रत्नानामेकतन्तुक्रमानुस्यूतानां समुदायो रत्नावलीति व्यपदिश्यते परीक्षकैः, न चेतरेतरविषयापरित्यागवृत्तीनां ज्ञानात्मकनयानामेकदोत्पत्तिसम्भवः, "जुगवं दो नत्थि उवओगा" इति वचनात् तथा च तत्कालाविद्यमानानां तेषां समुदाये सम्यक्त्वव्यपदेशः कथं शोभाव हस्स्यादिति चेत्, अनुक्तोपालम्भ एषः, न ह्येकदाऽनेकज्ञानोत्पादतस्तेषां समुदायो विवक्षितः, अपि त्वपरित्यक्तेतरधर्मविषयाध्यवसाय एव समुदायः, अन्योन्यनिश्रिता इत्यनेनाप्ययमेवार्थः प्रतिपादितः, न हि द्रव्यार्थिकपर्यायार्थिकन यास्यामत्यन्तपृथग्भूतायामङ्गुलिद्वय संयोगवदुभयवादोऽपरः प्रारब्धः, इत्येवं सम्मतिवृत्तावप्युक्तमिति । तादृशाध्यवसायश्च मिथ्यात्वाऽऽलिङ्गितानामेकान्तक्षणिकत्वाक्षणिकत्वभिन्नत्वाभिन्नत्वादिवादिसौगताक्षपादादिनिखिलमतानां यस्समुदायस्स चेत्स्यात्पदलाञ्छितस्स्यात्तदैव स्यात्, नान्यथा, पर सिद्धान्तोक्तैकान्तवस्तुतस्वज्ञानेषु स्याद्वादतम्व निर्णायक युक्तिभिरेकान्ततस्त्रसाधकयुक्तीनां निरासेन एकान्तेन तत्तत्तत्वसाधकहेतूनां स्याद्वादसाधकप्रति हेतुभिर्बाधि तत्व प्रदर्शनेन चाड - ग्रामाण्यनिश्वयात्तद्विषयाभावनिश्वये स्याद्वादसिद्धान्तसिद्धेः, अत एव सम्यग्दृष्टिना स्याद्वादमर्यादया विषयविभागेन व्यवस्थापितस्सर्वोऽपि परसिद्धान्तस्स्वसिद्धान्त एवेति गीयते । ननु नयानां प्रत्येकावस्थायां मिथ्यादृष्टित्वात्तत्समुदायेऽपि महामिध्यादृष्टित्वप्रसक्त्या न ते समुदिता अपि सम्यक्त्वं प्रतिपद्यन्ते, प्रचुरविषलवसमुदाये विषप्राचुर्यवत्, नापि परस्परं विवदमानाः समुदिता वस्तुगमका भवन्ति, प्रत्येकावस्थायां तदगमकत्वात् प्रत्युत मिथो विरोधित्वाद्वस्तु विघातायैव भवन्ति, बैरिसमूहवदिति चेत्, मैवम्, वस्तुतवानवबोधात्, यतः प्रचुरविषलवा अपि प्रौढमन्त्रवादिनाऽतिप्राज्ञकुशल क्रियपीयूषपाणिमहावैद्येन वा निर्विषीकृत्य कुष्ठादिरोगिपुंभ्यो दत्ता अमृतरूपतां प्रतिपद्यन्ते, तद्वद् विषलवोपमाः प्रत्येकनया अपि आत्मप्रदेशाभ्यन्तरे मिथ्यात्वविषव्याप्त्याऽज्ञानसंमूर्च्छाकारिणोऽपि समुदितास्ते महामन्त्रवादिसमेन महावैद्यसमेन वा स्याद्वादतश्वज्ञेनानुपकृतोपकारबुद्ध्या निष्पक्षपातहितका ङ्क्षिणा सम्यग्ज्ञानिना सम्यग् विनियोजिता विरोधभावरूपं विषं दूरीकृत्यामृतोपमाऽविरोधभावं गमिता मिथ्यात्व रोग व्याप्त स्वान्तानामप्युपयुक्ता मिध्यात्वरोगं हत्वा महाकर्मवैरिबलजेत्सम्यग्ज्ञानसध्रीचीनसम्यग्दर्शन भावलक्षणारोग्यभावं प्रापयन्ति, अत एव ते नयवादाः * "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy