SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ सम्मति० का १, पा० १० , 4 प्रतिक्षिप्यत्वेन तदवगाहिप्रतिभासस्य मिध्यारूपत्वात् । उत्पादव्यययोīध्यस्य च परस्परसापेक्षतया गौणप्रधानभावेनोत्पादादिधर्मत्रयावगाहित्वे सत्येव प्रामाण्यस्य च भावादुपादादित्रयात्मकमेव वस्त्वभ्युपगन्तव्यमिति तात्पर्यार्थः । अवयवार्थस्त्वेवम्--- ' दवडियवसई' द्रव्यार्थिकवक्तव्यं द्रव्यार्थिकनयप्ररूपणाविषयोऽभेदः ' अवत्थु ' अवस्तु पर्यांयनयप्राधान्योपस्थितिजनितद्रव्यार्थिकनयाप्रामाण्यनिश्चयप्रयुक्तावस्तुस्वनिश्चयविषयः, ar किं सन्देह इत्यत आह- " णियमेण " इति निश्चयेनेत्यर्थः कस्य मते इत्यत आह" पजवणयस्स ' पर्यायार्थिकनयस्य, एतदनन्तरं मते इति शेषः, तन्मते वस्तुमात्रस्य प्रतिक्षणं भिन्नभिन्नार्थक्रियाकारित्वेनैव सद्रूपतया नियमेन भिन्नभिन्नस्वरूपत्वात् । ननु यथा द्रव्यार्थिकनयाम्युपगतोऽभेदः पर्यायार्थिकनयेनासन्नम्युपगतस्तथा पर्यायार्थिकनयाभ्युपगतो मेदो द्रव्यार्थिकनये नासन्नेत्राभ्युपगतः किं वाऽन्यथेत्याशङ्कायामाह - तह इत्यादि । तथा ' तद्वत् ' पञ्जववत्यु' पर्यायनयाभ्युपगत मेदाख्यं वस्तु ' अवत्थमेव ' अवस्त्वेव द्रव्यार्थिकनय प्राधान्योपस्थितिजनितपर्यायार्थिकनयाऽप्रामाण्यनिश्चयप्रयुक्ताऽवस्तुत्वनिश्चयविषय एव, ' दवडियणयस्स' द्रव्यार्थिकनयस्य, एतदनन्तरमपि मत इति पूरणीयम्, तन्मते भेदरूपाणां घटपटादिविकाराणामलीकत्वेन घटः सन् पटः सन्नित्याद्यनुगत प्रतीतिविषयस्याऽखण्डसस्त्रस्यैव वस्तुत्वादिति । अतो भजनामन्तरेण पर्यायार्थिकनयेऽभेदस्य द्रव्यार्थिकनये च भेदस्यासद्रूपत्वात् ' इदं द्रव्यमेते च पर्यायाः' इति नास्ति विभाग इति भजनयैव स कर्त्तव्यः, द्रव्यपर्याययोः प्रधानोपसर्जनभावापेक्षया समस्तवस्तुव्यवहारप्रवृत्तेः, तथाहि - स्याद्वादिना योऽर्थो येन द्रव्यात्मना पर्यायात्मना वा जिज्ञासितो भवति तस्यार्थस्य तेन रूपेण ज्ञानं भवति, यश्चार्थो येन द्रव्यात्मना पर्यायात्मना वा वक्तुमिष्टो भवति तस्यार्थस्य तद्रूपमुपादायाऽभिधानं भवति, एतस्माजिज्ञासाविवक्षावैचित्र्यात्स्याद्वादे द्रव्यपर्यायक वस्तुनि समप्रधानभावेऽपि प्रधानोपसर्जन भावावलम्बनेन समस्तवस्तुव्यवहारः प्रवर्त्तते, नैतावता वस्तु द्रव्यमात्रात्मकं पर्यायमात्रात्मकं वा किन्तु द्रव्यपर्यायोभयात्मकमेव, यदाह - सर्वमात्रासमूहस्य, विश्वस्यानेकधर्मणः । सर्वथा सर्वदा भावात्, कचित्किचिद्विवक्ष्यते ॥ १ ॥ " इति । ८४ 64 " अत्र मात्रापदं द्रव्यपर्यायांशपरम्, सर्वथा सर्वप्रकारेण द्रव्यपर्यायादिस्वभावेन । एवं सति कुतो न द्रव्यपर्यायोभयरूपेण सर्वस्य व्यवहार इत्यत आह- क्वचिदिति, यदा यस्य वस्तुनो येन रूपेण विवक्षा तदा तेन रूपेण तस्य व्यवहार इत्यर्थः । ननु द्रव्यप्रतिभासोऽपि द्रव्यार्थिकनयेन पर्यायप्रतिमासोऽपि च पर्यायार्थिकनयेनानुभूयत एवेत्यनुभूयमानस्याभेदस्य भेदस्य व पर्यायार्थिकनयेन द्रव्यार्थिकनयेनं च प्रतिक्षेपः कथं क्रियते इति चेत्, "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy