SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ सम्मति० काण्ड १, गां०३ विनाशकं विश्वविश्वभावोद्योतकारि विवेकादिभावचक्षुष्मदपूर्वानन्दप्रदमुपकार्योपकारानपेक्षं मावती कुर्वन्ति, चिकीर्षाजन्यप्रवृत्तिं प्रत्येवाभिमतप्रयोजनमुद्देश्य तथाऽपेक्षितम्, चिकीर्षायाश्च रागरूपत्वेन वीतराग भगवतां तदभावेन तज्जन्यप्रवृत्यभावेऽपि स्वभावत एव प्रवृत्तिभावान तत्र प्रयोजनमपेक्षितम्, न हि स्वभाव: पर्यनुयोगाई इति । ननु सूर्यस्य स स्वभावोऽनादिसंसिद्ध इति तद्वत् निश्रयनयेनात्मनोऽनादिसंसिद्धः चेतनास्वभाव इति तद्वद्वा किं तीर्थप्रवर्त्तनस्वभावस्तथाविधः किं वा कादाचित्क इति चेत्, उच्यते, कर्मोपाधिजन्यत्वेन सोपाधिकत्वान्नानादिस्सः किन्त्वचिन्त्यप्रभाव पुण्यप्रकृतिरूपतीर्थकरनामकर्म यदा बध्यते तदैव शक्तिरूपेणोत्पद्यमानत्वेन कादाचित्क इति शक्तिरूपेण विद्यमानस्य स्वभावः 44 उदए जस्स सुरासुरनरवइनिवहेहिं पूइओ होइ । तं तित्थपरं नामं, तस्स विवागो हु केवलिणो ॥ १ ॥ >> " तं च इति वचनादशेषघातिकर्मक्षयाविर्भूत केवलज्ञानकालभावी यस्तीर्थकरनामकर्मविपाकोदयस्तेनैवाभिव्यज्यते, अत एव तीर्थकरनामकर्मस्थित्यवधिस्थितिकस्स स्वभावः, कहं वेrजह, अमिलाए धम्मदेसणाए उ इति वचनात् सद्धर्मदेशनया तीर्थकर नामकर्मविनाशे तद्विनाशभावादिति । एतेन 17 45 तस्मिन् ध्यान समापन्ने, चिन्तारत्नवदास्थिते । निस्सरन्ति यथाकामं, कुड्यादिभ्योऽपि देशनाः ॥ १ ॥ >> ४९ इत्यपि मतमपहस्तितम्, यतो यदि भगवत्स्याद्वादधर्मदेशना कुड्यादिभ्यो निस्सृता स्यातर्हि आप्तोपदिष्टा न स्यात्, तथात्वे च सा विश्वसनीयाऽपि न स्यात्, रथ्या पुरुषीयदेशनावत्, अस्ति च सा विश्वसनीया, तस्मादाप्तोपदिष्टैवेति प्रसङ्गविपर्ययाभ्यां सिद्ध्यति । उक्तञ्च कुड्यादिनिस्सृतानां तु न स्यादाप्तोपदिष्टता । "I विश्वासश्च न तासु स्यात्, केनेमाः कीर्तिता इति ॥ १ ॥ " इति न च भगवदतिशय प्रभावादेव भीच्यादिनिस्सृतायां भाषायां भगवन्मुखोच्चरितत्वमारोप्यत इति वाच्यम्, अन्यत्र प्रमितं ह्यारोप्यते " इत्यतोऽन्यधर्मिणि भगवन्मुखो चरितत्वस्य प्रमित्यभावेन कुड्यादिनिस्सृतभाषायां तदाशेपासम्भवात् नाद्यावधि कुड्यादिनिस्सृता भाषापि सिद्धेति तत्र तदारापोऽपि कथं सिद्धस्स्यात् । न चास्मदागमोक्तत्वात्सा सिद्धेति चेत्तर्हि भाष्यमाणैव भाषेतिलक्षणानाक्रान्तत्वाद्भाषारूपतामेवातिक्रमेत । किञ्च सा व्यक्तवर्णपदवाक्यरचनात्मक स्पष्टाक्षराऽपि न स्यात्, तां प्रति पुरुषकर्तृकतालुकण्ठाद्यभिघातसंयोगस्य हेतुत्वात्, अन्यथा तयोः कार्यकारणभावे तत्रैव व्यभिचारस्स्यात् । अथ कुड्यादिनिस्सृतभाषाभिन्नतादृशभाषां प्रत्येव ताल्वादिसंयोगस्य हेतुत्वमिति नोक्तदोष इति चेतर्हि 46 "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy