SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ सम्मति०] काण्ड १, गां०१ " तत्प्रतिबन्धकेन तदुत्तरमुक्तलक्षणाप्रामाण्यज्ञानमेव न भवेत् भवति च तदिति तेषामप्रामाण्यज्ञानानास्कन्दितज्ञानस्यैव श्रौतज्ञाने स्वतः प्रामाण्यज्ञानात्मकस्याभावेन न तद्विषयप्रामाण्यलक्षणा शुद्धिस्संगतेति तादृशशुद्ध्यभावान्मिध्यादृष्टिज्ञानं न सम्यग्ज्ञानम्, तज्ज्ञानगत प्रामाण्यस्याप्रामाण्यज्ञानास्कन्दितं श्रौतज्ञाने यत् स्वतः प्रामाण्यज्ञानं तद्विषयत्वात् । ननु सिद्धान्ते स्वप्रकाशात्मकतयैवाभ्युपगते ज्ञाने प्रामाण्यं स्वतः परतव गृह्यत इति परतो ग्राह्यतायां यदा सम्यग्दृष्टेः श्रुतजन्यज्ञाने प्रामाण्यज्ञानं न जातं तदानीमप्रामाण्यज्ञानानास्कन्दितज्ञानविषयत्वस्य तज्ज्ञानगतप्रामाण्येऽमावातज्ज्ञानं शुद्धं न स्यादिति चेत्, मैवम्, यजिनैः प्रणीतं तत्तथ्यमेवेति श्रद्दधतः सम्यग्दृष्टेः श्रुताद्यज्ज्ञानं जायते तद्यथा स्वं गृह्णाति तथा स्वगतप्रामाण्यमपि गृह्णात्येव, तज्ज्ञानगतप्रामाव्यस्य नियमेन स्वतो ग्राह्यत्वाद, परतो ग्राह्यत्वं तु प्रामाण्यस्य तत्रैव यत्र प्रामाण्यशङ्काद्यंवतारः, प्रकृते तु नैवम्, भेषजस्य रोगप्रशमने पूर्वं रेचनकृतरोगिकोष्ठाशय शुद्धिर्यथा सहकारिणी तथोक्तशुद्धिविशिष्टज्ञानोत्पत्तौ श्रुतस्य सम्यग्दर्शनलक्षणाशयशुद्धिस्सहकारिगीति तदभावे सत्यप्रामाण्यज्ञानास्कन्दितश्रौतज्ञानार्जकत्वेऽपि तत्सच्वेऽप्रामाण्यज्ञानानास्कन्दितज्ञानविषयप्रामाण्यविशिष्टज्ञानार्जकत्वेन श्रुतात्मकशासनस्योक्तलक्षण निश्चितप्रामाण्यं निर्वत्येवेति भावः | अत्रेदमवधेयम् ' सासणं' इत्यत्र विशेष्यात्मक शासन पदोत्तरसि प्रत्ययार्थस्यैकत्वस्य साक्षात्सम्बन्धेन शासनपदार्थेऽन्वयाऽभ्युपगमे एकस्मिन्नेव शासने 'जिणाणं' इति बहुवचनमहिम्नाsने कजिन प्रणीतत्वमनिष्ट मापद्येतेत्यतो ' वेदाः प्रमाणम्' इत्यत्र विशेपणी भूतप्रमाणपदोत्तर सिप्रत्ययार्थैकत्वस्य सिप्रत्यय प्रकृत्यर्थतावच्छेदकं प्रमितिकरणत्वं यावः छन्दनिष्ठमेकमेवेति तत्रान्वयवत् 44 जात्याकृतिव्यक्तयः पदार्थः " इत्यत्र विशेषणीभूतपदार्थपदोत्तरसिप्रत्ययार्थैकत्वस्य सिप्रत्यय प्रकृत्यर्थतावच्छेदकं पदवाच्यत्वं जात्याकृतिव्यतिष्वेकमेवेति तत्रान्वयवच्च तस्य प्रत्येकजिनप्रणीतस्त्रीयत तच्छासनसमूह निष्ठे एकस्मिन् शासन पदार्थैकदेशे सिप्रत्यय प्रकृत्यर्थतावच्छेद के शासनत्वेऽन्वयः, तथा चैकत्वविशिष्टशासनः खेन रूपेण सजातीयं यच्छासनमतीतानागतवर्त्तमानं तत्सर्वं सकलरागादिदोषाऽपरामृष्टः जिनाभिहिताने कान्तात्मकार्थविषयक निश्चितप्रामाण्यकयथार्थप्रतीतिजनकत्वात् "सिद्धं” इति पदलब्धनिश्चितप्रामाण्योपेतमिति सिध्यति । अत एव " तत्वपर्यालोचनायां तु सूत्रार्थोमयरूपत्वादागमस्यार्थापेक्षया नित्यत्वात् सूत्रापेक्षया चानित्यत्वात् कथञ्चित् कर्तु सिद्धिः " इति प्रज्ञापनावृत्तिवचनाद् द्वादशाङ्ग्यात्मके शासनेऽर्थापेक्षयाऽनादिभूतेऽपि शब्दरचनापेक्षया सादिरूपे " जिणाणं " इति पदलब्धार्थेन जिनप्रणीतत्वेनैव सिद्धप्रमाणभावे न प्रामाण्य प्रसाधनाय प्रमाणान्तरगवेषणा कार्या' इति दर्शितम् । कालत्रयावच्छिन्नशासनानां बहुस्वेsपि ' सासणं' इत्यत्रैकवचनं तु तत्तच्छासनोक्तार्थेषु सर्वजिना - नामवैमत्यतो वर्तमानतीर्थ करप्रणीतशासनस्याप्यतीतानागततत्तञ्जिनप्रणीत प्रष्यमाणद گله "Aho Shrutgyanam" २९
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy