SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ २४ सम्मति० काण्ड १ ० १ स एवं प्रमाणभूतः पक्षोsस्तु किं परतः प्रामाण्यनिश्चयाभ्युपगमेनेति मुरारिमिश्रमतमध्येकान्तरूपं न युक्तम्, अनभ्यासदशायामनुव्यवसायानन्तरं प्रामाण्यसन्देहस्य सर्वानुभवसिद्धत्वात्, निश्चिते प्रामाण्ये सति सन्देहाऽयोगात् । तस्मादनभ्यासदशायां यादृशोऽर्थः पूर्वस्मिन् विज्ञाने प्रथापथमवतीर्णस्तादृश एवासौ येन विज्ञानेन व्यवस्थाप्यते तल्लक्षणसंवादकज्ञानापेक्षया जायमानत्वात्परतः प्रामाण्यनिश्चयः, अभ्यासदशायां तु प्रमेयाव्यभिचारित्वाज्ज्ञाने स्वतः प्रामाण्यनिश्चयः, संवादकज्ञानानपेक्षणादित्युक्तं प्राक् | जैनमते ज्ञानस्य स्वप्रकाशत्वेऽपि तद्गतं प्रामाण्यं ततः कथञ्चिद्भिन्नमिति तद्ब्रहोऽपि न नियत इत्यतः स्वप्रकाशेऽनभ्यासदशापभज्ञाने ज्ञानावभासेऽपि प्रामाण्यं न भासत इति तत्संशय उपपद्यत इति । अत्राह प्रभाकरः - शुक्ताविदं रजतमित्यादिज्ञानमपि दोषवशात् प्रमुष्टतत्ताकं रजतमिति स्मरणम्, इदमिति च प्रत्यक्षमिति यथार्थज्ञानद्वयात्मकमित्यतः सर्वज्ञानस्य यथार्थ - स्वादेव कस्यचिज्ज्ञानस्य प्रामाण्यं कस्यचित्रप्रामाण्यमिति विभाग एवानुपपन्नस्तर्हि तदुमयनिश्वयस्स्वतः परतवेति वार्त्ता सुतरामसम्भविनी, ज्ञानमात्रस्य स्वप्रकाशात्मकत्वेन ज्ञानात्मविषयरूप त्रिपुटीविषयकत्वात् व्यवसायानुव्यवसाययोरैक्याद् 'घटमहं जानामीत्याद्याकारव्यवसायेनैव स्वप्रकाशात्मकेन प्रामाण्यग्रहणं सञ्जायत इति ज्ञानत्वस्येव तद्गतप्रामाण्यस्यापि तेनैव ज्ञानेन निश्रयात् स्वतः प्रामाण्यनिश्चयस्यैव सर्वस्मिन् ज्ञाने सद्भावात्, तत्रैतन्मते तदप्रामाण्या ग्राहक यावज्ज्ञानग्राहकसामग्री पदेनेन्द्रियसन्निकर्षादिघटित सामग्री परिग्रहात्राजन्यव्यवसायात्मकग्रहविषयत्वात् स्वतो ग्राह्यत्वं प्रामाण्यस्य सूपपादमेवेति चेत्, उच्यते समाधिः, न तावत्सर्वज्ञानस्य यथार्थत्वादेवोक्तविभागोऽनुपपन्नः, याथार्थ्याऽयाथार्थ्य प्रश्ने यदुत्तरं तद्विरोधात्, तथाहि - विपरीतमवगतं मयेति लौकिकी ज्ञानविषयिका प्रतीतिः, अन्यथाऽवगतमित्यन्यथाख्यातिरिति च वैनयिकी प्रतीतिर्यथार्था न वेति प्रश्ने यदि यथार्थेत्युत्तरं तदेदं रजतमित्याकारक प्राथमिकज्ञानस्य स्त्रविषयीभूतस्याऽयथार्थत्वम्, प्राथमिकज्ञानविशेष्य कायथार्थत्वप्रकारकप्रतीतेश्च पश्चाद्भाविन्या यथार्थत्वम्, यदि न यथार्थेत्युत्तरं तदा प्राथमिकज्ञानस्य यथार्थत्वं प्राथमिकज्ञान विशेष्य कायथार्थत्वप्रकारक ज्ञानास्मिकायास्तस्याश्चाऽयथार्थत्वमिति यथार्थाऽयथार्थविभागोपपत्ते सर्वज्ञानस्य यथार्थत्वादेव विभागोऽनुपपन्न इति न युक्तियुक्तम् । ननु विपरीतमवगतं मयेति विपरीतज्ञानविषयिका अन्यथाsaगतं मयेत्यन्यथाख्यातिविषयिका वा प्रतीतिर्नास्त्येवेति नोक्तप्रश्नावकाशः, केवलं तादृशशब्दप्रयोग एव, न च स वस्तुसाधक इति चेत्, मैवं वद, यतो विपरीतज्ञानविषयका अन्यथाख्यातिविषयिका वा प्रतीतिस्सर्वेषामविगानेन भवत्येव, न चानुभवे परीक्षकाणां विवादस्सम्भवति, अन्यथा यद् यज्ज्ञानं तत्तत्सर्वं शब्दसंलापरूपमिति वदतोऽपि वक्त्रं नैव वक्रीभवेत्, तथा च ज्ञानमात्रस्योच्छित्तिप्रसक्तिस्स्यात् । न चोक्तज्ञानव्यवहारो नास्तीति वक्तुं शक्यम्, सतोऽपलापे तद्वत् सर्वस्यैव सतोऽपहुतिप्रसङ्गात् । नन्वस्तुक्तज्ञान "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy