SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १०७ ॥ श्रीगुर्वष्टकम् ॥ विशेषाधारत्वावमसि पुरुषेषुत्तम इतो, महिम्नः सामान्यं तव तु समवेता अपि सुराः। गुणाधारो द्रव्यात् पृथगपि सुकर्माऽस्यऽभवनः __नमामस्त्वां देवालयमपि गतं मद्धृदयगम् ॥१॥ गुरुस्त्वत्तो भीतो गुरुवर ! गतो देवसदनं, गतं त्वा तत्रापि प्रथितमवलोक्यातिचकितः । स्वयं शिष्यो भूत्वा किमु तव कवि भीषयति यत् , ननु त्वां काव्योपि यति नमनं तेऽस्तु चरणे ॥२॥ हरस्त्वं शिष्याणां हरसि हृदयध्वान्तमनिशं, चिरञ्च्युक्तिं किन्ते वचनमतिशेते न गहनम् । सुकल्पच्याप्दैव प्रभवति तदीया कृतिरियं, परा कल्पातीता गुरुवर नमस्तेऽस्तु सततम् ॥३॥ गणेशास्ते शिष्या वदनमपि भारत्यधिगता, नयग्रामोऽणौ ते मनसि रमतेऽनेकपथगः । प्रमाणस्वातन्त्र्यं तव मतिगतं भाति विमलम् , नमामस्त्वां नित्यं गुरुवरमभीष्टालिकलितम् ॥ ४ ॥ गुणौधैर्याप्त ते हृदि परिमिते कीर्तिरमिता, गताऽब्धीनां पारं तदनुगमनास्तेऽपि च गुणाः। प्रतापस्तैः सर्वैर्जगदपि परित्याप्य च गतो, गुरो चित्रं तैस्त्वां भृतमपि नमस्यामि चकितः ॥ ५ ॥ गुणान् वक्तुं शक्तस्स तव सुगुरो यश्रुतधरः, पतः कालोऽनन्तो जिनवचनगीश्चारु भजना। अमेयोऽवाच्यो पा गुणगणगतस्ते यदि गुणो, विशिष्याऽनाख्येयो गुणिगुणनमस्योऽसि च तदा ॥ ६ ॥ त्वमेव त्वां स्तोतुं गुरुवर समर्थोऽसि नितरां, गुणग्रामो यत्ते न च परपरिच्छेद्य इयता । न सादृश्य पूर्ण त्वयि जगति कस्यापि कृतिनो, नमामस्त्वां पूर्णामृतसुखमयं पूर्णमवरम् ॥ ७॥ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy