SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ २२ राजा किञ्च - ( दीर्घमुष्णं च निःश्वस्य ) मन्त्रियशः पालविरचितं ( ततः प्रविशति राजा विदूषकश्च 1 ) सर्वज्ञचरणयुगले सरसिजलक्ष्मीं विलोक्य मे चित्तम् । चिन्तयति नेत्रनलिनद्वयमनघं तत्क्षणं तस्याः ॥ १० ॥ ( पुनराकाशे लक्षं बद्धा ) अपि च अन्यच श्रुतां प्रणिधिवक्रेण दृष्टां गुरुतपोवने । तामेकां सुन्दरीं मुक्त्वा नान्यत्र रमते मनः ॥ ९ ॥ धातस्त्वया या मृगशावलोचना हृता नितान्तं खलचित्तवृत्तिना । संस्पर्द्धया ते मम चिन्तया हृदि न्यासीकृता सैव सुधातरङ्गिणी ॥ ११ ॥ सर्वकष ! पञ्चेषो ! संप्रति मां प्रति करिष्यसे किं रे ? | स्त्रीरत्नं तन्मम हृदि यस्य खलु त्वमपि दासोऽसि ॥ १२ ॥ [ द्वितीयो आच्छिन्नं यस्य धनुर्भूवल्लीछद्मना यया तन्व्या । साई मम मनसि तया स वसन्नो लज्जसे काम 1 ॥ १३ ॥ विदूषकः - (स्वगतं ) ( १ ) हद्धी हद्धी पुरा वि दाव एस उम्मत्तओ आसि । इदाणिं पुण विसेसो जाओ । जं तस्सेव सेयंबरगुरुणो तवोवणे निज्झाइदा अणेण किवासुंदरी णाम कन्नगा । तदणुरायविसंठुलो य असमंजसं वियरदि । जंवा तंवा पलवदि । ता सच्चमेयं, जत्थ व तत्थ व नूणं कामियणो नियइ तम्मयं सयलं । उम्मत्तयर सरसिओ पिच्छइ नन्नं विणा कणयं ॥ १४ ॥ १ B & C पुरा दा. " ( १ ) हा धिक् हा धिक् पुरापि तावदेष उन्मत्तक आसीत् । इदानीं पुनर्विशेषो जातः । यत्तस्यैव श्वेताम्बर गुरोस्तपोवने निर्ध्याता अनेन कृपासुन्दरी नाम कन्यका । तदनुरागविसंस्थुलचासमंजसं विचरति । यद्वा तद्वा प्रलपति । ततः सत्यमेतत्, यत्र वा तत्र वा नूनं कामिजनो पश्यति तन्मयं सकलम् । उन्मत्तकरसरसितः प्रेक्षते नान्यद्विना कनकम् ॥ "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy