SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ मोहराजपराजयम् । राजा-(स्वगतं ) उत्तानप्रकृतिबंटुस्तैनैव रहस्यश्रवणाहः भवतु तावत्। (प्रकाशं) योगिन् ! कच्चिदात्यन्तिकः कोऽपि धर्मप्रत्यूहहेतुर्यदस्मानस्मार्षीः। योगी-(स्वगतं ) साधु समयज्ञशिरोमणे ! साधु । (प्रकाशं) राजन् !, न धर्मविप्लवः कोऽपि त्वयि शासति मेदिनीम् । उदिते पूष्णि पुष्णाति तमःस्तोमः किमुद्गमम् ॥ १६ ॥ किन्तु द्रष्टव्यो वर्णाश्रमगुरुरिति । विदूषकः-(१) भो वयस्स! चिट्ठ तुमं । अहं दाव पुच्छिस्सं । महल्लं मे कोदुहल्लं। राजा-एवमस्तु । विदूषकः-(२) भो साहेसु नियसमयरहस्सं। योगी-न खल्वहं तव रहस्यमाख्यातुमागतोऽस्मि । विदूषकः-(३) अध अन्नस्स कस्स ?। योगी-अपि तु महाराजस्य । विदूषकः-(४) अहं पि महारायपियमित्तु म्हि जइ परं इमाओ थोवेण परिहीयामि। राजा-किश्चानुपपन्नमत्र । योगी-भद्र ! न खलु राजमित्रमिति रहस्यं श्रोतुमर्हति,अपितु योग्यः । विदूषकः-(५) अच्छरियं अच्छरियं जं अहं महाभणोऽवि अर्जुग्गो। योगी-ब्राह्मणः शूद्र इति न किञ्चिदेतत् । यतः सप्तधातुमये देहे समाने सर्वदेहिनाम् । ब्राह्मणोऽयमयं शुद्र इति केयं विचारणा ? ॥ १७ ॥ (१) भो वयस्य ! तिष्ठ त्वम् । अहं तावत्प्रक्ष्यामि । महन्मे कुतूहलम् । (२) भोः कथयस्व निजसमयरहस्यम् । (३) अथान्यस्य कस्य ?। (४) अहमपि महाराजप्रियमित्रमस्मि यदि परमस्मात् स्तोकेन परिहिणोमि । (५) आश्चर्यमाश्चर्य यदहं महाब्राह्मणोऽप्ययोग्यः । १ B & C स्तन्नैष. २ B & C क्वापि, ३ B & C जोग्गो. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy