SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ११० मन्त्रियशःपालविरचितं [चतुथोंसर्वे--( सहर्ष ) (१) साहु अम्ब ! साहु । विन्नवीयदु । मारिः-(२) देव ! अम्हे जूयं जंगलको मज्जसेखलो लाजकुले पभूतं व्वं पुंलिंति । ता को आदेसो ? । राजा-पातकोपात्तेन वित्तेनापि न मे प्रयोजनम् । (दाण्डपाशिकः सर्वाणि पुरस्कृत्य निर्गतः ।) राजा-(स्वगतं) निर्याते दुष्टचक्रे भवतु जगदिदं सौख्यपीयूषमग्नं कामस्तस्याः कृपायाः फलतु विषमताभाजि पूर्ण पणेऽस्मिन् । किञ्च श्रीमान् विवेकः कलयतु नितमां संपदं प्राक्तनी स्वां राज्यश्रीरस्तु हृष्टा व्रजतु विफलतां मोहराजप्रयासः ॥५१॥ (नेपथ्ये ) निर्वासयति नरेन्द्रो नगराद्व्यसनानि सपरिवाराणि । दोषमयान्यपि भूपैः पुरस्कृतान्येव यान्यन्यैः॥५२॥ राजा-(सहर्षे ) एतावता कृतार्थोऽस्मि । (नेपथ्ये) वैतालिकःनयनशफरवीथीबन्धनायेव सायं समयवधकक्लप्तं त्रोटयन् ध्वान्तज्वालम् । भुवनसरसि रम्यं रक्षकत्वं धानो वहति वियति राजा पश्य लक्ष्मीमपूर्वाम् ॥५३॥ राजा-कथं प्राप्तः प्रदोषसमयः ? । तदुत्तिष्ठामः । ( इति निष्कान्ताः सर्वे ।) चतुर्थोऽङ्कः । (१) साधु अम्ब ! साधु । विज्ञप्यताम् । (२) देव ! वयं द्यूतं जाङ्गलको मद्यशेखरो राजकुले प्रभूतं द्रव्यं पूरयामः । तत्क आदेशः । १ Cइलो. २ ० पुलॅति. ३ C देशो. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy