SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ मन्त्रियशः पालविरचितं [ तृतीयो कुबेरः -- प्रिये ! अवतरावस्तावत् । मा महियोगकातरा किञ्चिदत्याहितं करिष्यत्यम्बा | पातालचन्द्रिका – (१) अज्जउत्त ! एवं भोदु । कुबेरः —— तदेतन्मम सदनं यावद्वतरामि । (पुरोऽवलोक्य ) अये ! कथमत्र महाम् जनसमवायः ? । कथं चात्र चौलुक्यचक्रवर्ती विलोक्यते ? | मन्ये च मद्रविणग्रहणाय क्षोणिपतेरयं स्वयं गृहागमन परिस्पन्दः । भवतु तावत् । ( विमानादवतरति । ) सर्वे - ( सहसो पलक्ष्य ) कुबेर: कुबेर इति । ६८ ( कुबेर उपसृत्य राजानं प्रणमति । ) राजा - ( सप्रणयं ) स्वागतं भवत: ? । गुणश्रीःकुबेरः- -अम्ब ! प्रणमति कुबेरः । गुणश्रीः- ( ३ ) पुत्त ! अजरामरो भो । कुबेरः -अम्ब ! एषा वधूः प्रणमति । ( पातालचन्द्रिका गुणश्रियः पादौ स्पृशति । ) गुणश्रीः- -(४) जादे ! अविधवा भोसु । राजा - श्रेष्ठिन् ! इत आस्यताम् । ( कुबेर उपविशति । ) राजा-भोः श्रेष्ठिन् ! कथय कथं वामदेवप्रकटितात्तादृशाद्दुर्गदेशादीदृशेन विमानेन पुनरस्मन्नगरमहाजनं सनाथतां नीतवानसि ? | (२) दिट्टिया वडामि पशुज्जीविदस्स वच्छस्स दंसणेणं ति । कुबेरः -- देव ! निर्यामकोक्तनीत्या गत्वा तद्देवतागृहं कृतमातोद्यताडनम् । प्रविष्टेन चान्तश्चन्द्रकान्तमणिमयी भगवतश्चन्द्रप्रभस्य निरूपिता प्रतिमा । ( १ ) आर्यपुत्र ! एवं भवतु । (२) दिष्ट्या वर्षे प्रत्युज्जीवितस्य वत्सस्य दर्शनेनेति । ( ३ ) पुत्र ! अजरामरो भव । (४) जाते ! अविधवा भव । "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy