SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ मोहराजपराजयम् । राजा - प्रतीहार ! महाजनं द्रष्टुमिच्छामि । प्रतीहारः -- यदाज्ञापयति देवः । ( इति निष्क्रम्य महाजनेन सह प्रविशति । ) महाजनः- - ( अपवार्य साशङ्कं ) मृतस्वग्रहणक्षणे क्षोणिपतिरस्मद्दर्शनमिच्छतीति न जाने किं भविष्यति ? । ऽङ्कः ] प्रतीहारः -- इतो देवस्तदुपसर्पतु महाजनः । ( महाजन उपसृत्य प्रणमति । ) राजा - ( ससंभ्रमं ) आसनमासनं महाजनाय । महाजनः - ( परिजनोपनीतमासनमध्यास्य ) प्रसीदतु देवः । किमनुष्ठीयताम् ? इति । राजा - ( सजुगुप्सं ) दुर्भिक्षोदयमन्नसंग्रहपरः प्रत्युर्वधं बन्धकी ध्यायत्यर्थयते भिषग्गद्गणोत्पातं कलिं नारदः । दोषग्राहिजनश्च पश्यति परच्छिद्रं छलं शाकिनी निष्पुत्रं म्रियमाणमाढ्यमवनीपालो हहा ! वाञ्छति ॥ ५० ॥ महाजनः -- ( अपवारितकेन ) किमेतदुपन्यस्तं देवेन ? | राजा - अपि च, निर्वीराद्रविणादानाद्यद्भवेत्पातकं महत् । आक्रान्तस्तद्भरेणेव नृपो याति रसातलम् ॥ ५१ ॥ महाजनः -- ( कर्णौ पिधाय ) शान्तं पापम् । राजा ---स्थाने लौकिका अपि राजानमेवं पापमयमाचक्षते । तथाहिदशसूनासमं चक्रं दशचक्रसमो ध्वजः । दशध्वजसमा वेश्या दशवेश्यासमो नृपः ॥ ५२ ॥ महाजनः- - किमेवं सकलैपूर्व भूपालपरंपरापरिक्षुण्णं मृतस्व ग्रहणव जुगुप्सते देवः ? | • राजा -- किं बहुनोक्तेन ? : ?, ६५ १ B & C व्यतीति. २ B & C 'लभूपाल S "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy