SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ 10 प्रथमोऽधिकार [ १९ [ 38 ] प्रस्तरतरणे राममहिमा । एकदा पीरोजसुरत्राणेन मुकुन्दपण्डितस्याने प्रोक्तम्-अहं महान् अथवा रामः ? ततस्तेन ज्ञेन जलमानायितं, तत्र अयं पाषाणो जले क्षिप्यतां । राज्ञा पाषाणो जले क्षिप्तो ममज । ततो राज्ञोक्तम्-व्यक्त्या] व्यक्तं जल्प, भयो नानेयः । ततो ज्ञोऽवग्-रामस्य सेवकहनुमदादिभिजले मुक्ताः प्रस्तरास्तेरुः, अयं तु पाषाणो मग्नः, यतः ये मज्जन्ति निमज्जयन्ति च परास्ते प्रस्तरा दुस्तरे, वाद्धौं वीर (१) तरन्ति वानरभटान् संतारयन्तेऽपि च । नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः, श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते ॥१॥ एवं प्रोक्तो राजा हृष्टः ।। इति प्रस्तर तरणे राम महिमा ॥३८॥ [ 39 ] औचित्योत्पत्तिबुद्धौ छाग-छागमातृकथा । एकदा छागो मातरं प्रति जगौ मातर ! दीपालिका समेष्यति मदीयौ श्रृंगौ त्वं भूषयेस्तदा माताऽवग-पुत्र ! यदि महिणिमायां (?) अश्विनशुद्धनवम्यां तव कुशलं भविष्यति तदा तव कथितं करिष्ये । एतच्छ्रुत्वा भीमभूपेन छागमारणेऽभिग्रहो गृहीतो, महिणिम पर्वणि जीवहिंसा त्यक्ता, अन्यत्पक्वान्नादिबलिश्च कृतः ॥ इति औचित्योत्पत्तिबुद्धौ छागछागमातृकथा ॥३६॥ 140 ] अनित्यतायां भोजसम्बन्धः । भोजराजोऽन्यदा रात्रेमध्ये काव्यपदत्रयमेवं पुनः पुनरुच्चैर्जजल्पेतिचेतोहरा युवतयः स्वजनोऽनुकूलः, सदान्धवाः प्रणयगर्भगिरश्च भृत्याः । वल्गन्ति दन्तिनिवहास्तरलास्तुरङ्गाः, ....................॥ इति पदत्रयं भूपेन प्रोच्यमानं पुनः पुनः श्रुत्वा चौरः पूर्व गृहान्तः प्रविष्टो जगौ सम्मीलने नयनयोनहि किञ्चिदस्ति' इति ततो राजा तं चौरं मत्वा भृत्यपार्धात् धृत्वा प्रातस्तं विज्ञं लक्ष्मीदानेनि सम्मानयामास ॥ इति अनित्यतायां भोजसम्बन्धः ॥४०॥ [41 ] अनित्यतायां वस्तुपालमन्त्रिकथा । 25 एकदा श्रीवस्तुपालमन्त्री स्तम्भतीर्थे ययौ । तदा लोकाः समेत्योचुः–'युष्माकं शरीरे झलमस्ति ! तदा वस्तुपालमन्त्री अवग "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy