SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ १६ ] प्रबन्धपञ्चशती 10 [32] निष्कृपोपरि मरुस्थलीवर्णनम् । माता गंगासमं तीर्थ, पिता पुष्करमेव च । तीर्थं फलति कालेन, माता- तीर्थं पुनः पुनः ॥ १ ॥ इत्यादि ध्यात्वा मातापितरौ कावडिकायां स्थापयित्वा विप्रस्तीर्थानि करोति । तीर्थानि 5 कुर्वन् मरुस्थल्यां गच्छन् अधः प्रचुरसिकतायां हिण्डितुमशक्नुवन् जलं स्तोकं पिबन् मृगतृष्णिकां पश्यन् पदे पदे जलभ्रान्त्या धावन् खिन्नः सन् प्रथमं पितरं स्कन्धादुत्तारयामास । पिताऽवग् अहमक्षमस्तीर्थं [क], कथमुत्तारयसि ? पुत्रोऽवग् इयं तु मरुस्थली रुक्षा एवं मातरमपि स्कन्धादुत्तार्य स्वेच्छया चालीत | मातापितरौ पादचरिणौ पुत्रस्य पृष्ठौ [ पृष्ठतः ] दुःखेन चलतः ।। इत्यादि मरुस्थली वर्णनं निष्कृपोपरि ||३२|| [33] ध्याने [ विचारे ] वैद्यकथा | यादृशं क्रियते चित्तं सदसद्वस्तुवर्णने । कवेरिव भवेताह, जनानां भावुकात्मनाम् ||१|| 7 तथाहिइ - एकदा श्रीरामस्य सुबुद्धिनामा कविरभूत् स च श्रीरामकारितं पम्पासरः काव्यैर्नित्यं वर्णयति स्म । वैद्या बहवः श्रीरामस्य परिवारस्य रोगोत्पत्तौ चिकित्सा कुर्वन्ति 15 स्म । अन्यदा सुबुद्धिकवेः सरो वर्णयतस्तदध्यानाजलोदरं वद्धितं वैद्यो विचारविज्ञस्तस्य चिकित्सा कारयति बहुप्रकारैः परं गुणो न भवति, यतः ---- वैद्यस्तर्कविहीनो, निर्लज्जा कुलवधूती पीनः । कटके च प्राघूर्णको, मस्तकशूलानि चत्वारि ||२|| तत एकस्तत्र वैद्यो वृद्धो विचारज्ञः समागात् । राज्ञा तस्य रोगचिकित्सायै आदिष्टम् । 20 ततस्तेन वृद्धेन वैद्येन शरीरस्वरूपं विलोक्य शालिदालिघृतादिवर्य [भोजनं दत्तम् ] ददता तस्य तथा भोजनं कुर्वाणस्य वैद्येनेत्यादिष्टम्, मरुस्थलं वर्णय । तत एवं वर्णयति- मृगतृष्णां सदा दर्श, दर्श तृषितवक्षसम् । ओष्ठ तालु गलादीनि, शुष्यन्ति स्म दिने दिने || ३ || इत्यादि वर्णयतस्तस्य रोगिणो जलोदररोगो गतः । श्रीरामेण पृष्ट-भो वैद्य ! मरुस्थल25 वर्णनेन कथमस्य रोगो ययौ ? वैद्योऽवम् पूर्वमनेन सरो जलभृतं भूरिशो वर्णितं तेन जलोदररोगोऽभूत् सरोध्यानात्, अधुना मरुस्थलवर्णनाद रोगो गतः 'यादृशं ध्यानं तादृशं मनः, नस्तादृग्वपुर्भवति', शुभाशुभाकर्णनाच्छरीरी प्रसन्नोऽप्रसन्नो भवति, यतः यादृग्म• "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy