SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ १० ] प्रबन्धपश्चशती [ 24 ] आलस्ये धनश्रेष्ठिकुन्तलपुत्रसम्बन्धः । श्रीपुरे धनश्रेष्टिनः पुत्रं कुन्तलाभिधं परिणयनयोग्यं श्रुत्वा चन्द्रपुरात् मदनश्रेष्ठी स्वां पुत्री रूपवतीं दातुं समागात् । तदा श्रेष्ठिपुत्रः पादमुच्चैः कृत्वोर्ध्वस्थितः सूर्याभिमुखं स्थित्या च कलशीमध्ये मूत्रयामास । तदा मदनश्रेष्ठी तत्रस्थस्वमित्रपार्श्वे श्रेष्ठिपुत्रस्य कुन्तलस्य वरस्य 5 स्वरूपं पप्रच्छ । अस्य धनस्य श्रेष्ठिनः कियन्तः पुत्राः सन्ति ? तेन व्यङ्ग्यवचनात्प्रोक्तम अस्य नवपुत्राः सन्ति । क्षणात्पुनः प्रष्टम कियन्तः पुत्राः श्रेष्ठिनः स्म? ततः स प्राह-पञ्च पुत्राः सन्ति । पुनः पृष्टं तेन कियन्तोऽस्य पुत्राः ? ततस्तेनोक्तं-त्रयः पुत्राः । पुनः पृष्टं कियन्तः पुत्राः भेष्ठिन स्म ? ततः स प्राह-पश्च पुत्राः सन्ति । पुनः पृष्टं तेन कियन्तोऽस्य पुत्राः ? ततस्तेनोक्तं-त्रयः पुत्राः । पुनः पृष्टं कियन्तः पुत्रा अस्य सन्ति ? [स प्राह, ] एक एव पुत्रः। 10 ततो मदनः प्राह-मित्र ! त्वयाऽहं भ्रान्तौ कथं पातितः पृथक्पृथग जल्पनात् ? मित्रः प्राह यन्मयोक्तं तत्सत्यमेव, यतोऽसौ श्रेष्ठिपुत्रः उच्चैःस्थित्वा सूर्याभिमुखं भूत्वा कलशीमध्ये मूत्रयामास अतोऽस्मिन् श्रेष्ठिपुत्रे त्रयत्वं मयोक्तम् , यतः पञ्च मनुष्या यावन्मात्रमाहारं भुञ्जते तावन्मात्रमेक एवायं भुङ्क्ते अतः पश्चपुत्रभावः प्रोक्तो मयाऽस्मिन् , निद्राक्षणे कुण्डलीदेहकरणात् [ देहकुण्डलीकरणात् ] नवडाकारेण [ नवाकारेण ] स्वपित्यसौ अतोऽस्मिन्नवपुत्रत्वं विद्यते, यत 15 एवंविधो वरोऽन्यत्र कुत्रापि न दृश्यते अत एकपुत्रत्वमस्य मयोक्तम् । एवंविधगुणो वरो विद्यते यदि रोचते तव तदा दीयतां पुत्री, स मूत्रयंश्च त्वया दृष्टः किं कथ्यतेऽधिकं ततः। श्रेष्ठी समुत्थाय स्वपुरे गतः । ततो वरं विलोकयन् पद्मपुरे वीरमहेभ्यस्य धरणपुत्राय श्रेष्ठी स्वां पुत्रीं ददौ । तत इतो धनश्रेष्ठिना बहुशिक्षितोऽपि पुत्रो नालसत्वं मुमोच । ये ये वरं दृष्टुमायान्ति ते ते तादृशं दृष्ट्वा ददुर्न स्वपुत्री यतः गच्छन् जल्पन हसंस्तिष्ठन् , शयानो भक्षयन्पुनः । मूर्खः सर्वत्र लभते, पदे पदे पराभवम् ॥१॥ ततः सोऽलसतां श्रयन् न परिणीतः, तत्पितरि मृते मूर्खत्वादलसत्वाद्विशेष पराभवस्थानं गभूष ॥ इति अलसत्वविषये धनश्रेष्ठिकुन्तलपुत्रसम्बन्धः ॥२४॥ [ 25 ] नागार्जुनसम्बन्धः । 25 सुराष्ट्रदेशभूषणे दुकपर्वते राजा रणसिंहो राज्यं कुर्वन् न्यायाध्वना पृथिवीं पालयति स्म । तस्य पद्मावती पत्नी बभूव । तयोर्भोपालाह्वा सुताजनि क्रमात्सा विद्याकलाः पाठिता, क्रमात राजा वर विलोकयन् नवसारिकानगरे अरिमईननरेन्द्राय ददी, इतस्तस्या रूपेण मोहितो वासुकिरभूत् , यतः अक्खाण[र]सणी कम्माण मोहणी, हंत वयाण बंभवयं । गुचीण य मणगुत्ती, चउरो दुक्खेण जिप्पंति ॥ १ ॥ 30 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy