SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रबन्धपश्चशती [ पृष्टमेतेषु ] ' देवेषु को वृद्धः? यदा लोको न वदति तदा जिनप्रतिमा मुख्यस्थाने उपविश्य [ उपवेश्य ] हरिब्रह्मादिप्रतिमाः परितो निवेशिताः, स्वयमासने उपविश्य परितः सेवकान् सायुधान् स्थापयित्वाह-को वृद्धः ?, लोका जगुः, स्वामी एव वृद्धः । सुरत्राणः प्राह ---यद्येवं तर्हि जिनो वृद्धः, शस्त्ररहितत्वात् , सायुधाः सर्वे सेवकाः, ततो लोकैरुक्तं प्रभुवचःप्रमाणमिति।।९।। 5 ततः सुरत्राणो गिरिनारगिरौ गतः, तत्र अच्छेद्याभेद्यप्रतिमां नेमिनो ज्ञात्वा घातैः स्फुलिंगनिःसरणः सुरत्राणः प्रभुं प्रणम्य क्षमयित्वा १०० मित स्वर्णटङ्ककैर्वर्द्धयामास ॥१०॥ एकदा जिनप्रभः पृष्टः सुरत्राणेन, भूमौ किं पुष्पं वृद्धम् ? सूरिः प्राह -- वउणि' (?) जगढंकनत्वात् ।।११। एकेन सुरत्राणस्याग्रे प्रोक्तं-जगसिंहः साधुः कूटं न जल्पति, ततः सुरत्राणेन पृष्टं जग10 सिंह ! तव गृहे कियत् धनं विद्यते ? तेनोक्तम्--कल्ये कथयिष्यते । ततो गृहे गत्वा साधुः सर्वगृहलक्ष्मीसंख्यां कृत्वा सुरत्राणपार्श्वे गत्वा प्राह-मम गृहे ८४ लक्षाः हेमटङ्कका विद्यन्ते । ततः सुरत्राणेन सत्यं तं झात्वा १६ लक्षाः स्वकोशादापिताः कोटीध्वजः कृतः सः ॥ १२ ॥ एकदा सुरत्राणेन स्वहस्ते वयं रत्नं गृहीत्वा प्रोक्तं-भो जगसिंह ! अस्माद्रत्नादन्यकिमपि महद्वर्य रत्नं विद्यते न वा ?, साधुः प्राह-अस्माद्वर्यो भवान् रत्नं । सुरत्राणो रञ्जितः 15 बहुलक्ष्मी ददौ ॥ १३ ॥ अन्यदा उकेशज्ञातिमुख्यसाधुजगसिंहगृहे कोऽपि खरसाणी (?) वणिम् पञ्चलक्षटककान् न्यासीकृत्वा गतः । सप्तवर्षाणि गतानि । इतस्तेन जगसिंहं मृतं श्रुत्वा ध्यातं न्यासीकृतं धनं गतम् पुनातं तस्य पुत्रो मुहणसिंहो विद्यते, तस्य परीक्षा क्रियते । ततस्तत्रागत्य सः प्राह भो मुहणसिंह ! तव पिता मम मित्रमभूत्, मया तु तव पितुः पार्श्व पश्चलक्षटंकका न्यासीकृताः तानपयेदानीं । मुहणसिंहोऽवग-यदि मम पितुरक्षराणि दर्शयिष्यसि तदाऽपयिष्यामि । तत्र [तस्य] पार्थेऽक्षराणि न सन्ति, अगटके जाते सुरत्राणपाधै गतौ, स्वं स्वं सम्बन्धं प्रोचतुः। स खरसाणी प्राह-भवान् पितुः समां करोतु । मुहणसिंहः प्राह~पश्चलः पितरं किं विक्रीणीचे ? ततः पञ्चलमा दत्ताः तस्मै । खरसाणी जगसिंहाक्षराणि दर्शयित्वा प्राह-सिंहात्सिंह एव जायते सत्यम् । ततो मुहणसिंह एकलक्षेण परिधापितः मैत्रीकृत्य, स मुहणसिंह उभयकालं प्रतिक्रमण 25 त्रिकालं देवपूजां करोति । साधून विहार्यव जिमति । वर्षमध्ये साधर्मिकवात्सल्यत्रयं संघा त्रयं करोति स्म ॥१४॥ एकदा सुरत्राणस्याग्रे केनचिद्रत्नत्रयं विक्रेतुमानीतं, रत्नपरीक्षका आकारिताः सर्वे, रत्नानि व्यावर्णितानि, ततो जगसिंहाय दर्शितानि । साधुर्जगौ एकममूल्यं, द्वितीयं लक्षमूल्यं, तृतीयं १. एतेषु को वृद्ध इति B. प्रतो वर्तते । 30 २. शपथ, सोगन इति भाषायाम् । संपा० "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy