SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३३० ] प्रबन्धपश्चशती अहो अपूर्व किमपि याति व्योम्नि, तदा कोलाहलं श्रुत्वा कम्बुग्रीवोऽवग्-भो सुहृदो ! ढोका कोलाहलं किं कुर्वन्ति । तं जल्पन्तं श्रुत्वा लोका जगुः - अरिष्टमेतत्पुरस्य करिष्यत्यतो हन्यताम् । तो लोकैर्लेष्टुभिराहत्याहत्य पातितो भुवि खंडशः कृतश्व स । सुहृदौ स्वं जीवं छात्वा नष्टौ । इति fecare कच्छपसम्बन्धः ॥५६०॥ [691 ] अथ अनागतमति - प्रत्युत्पन्नमति - यद्भविष्य सम्बन्धः । कस्मिंश्चिज्जलाशये अनागतविधाता प्रत्युत्पन्नमतिः यद्भविष्यश्च त्रयो मत्स्या वसन्ति । एकदा तस्य सरसः पार्श्वे गच्छद्भिः मत्स्यबंधकैरुक्तं-- अयं हृदो बहुमत्स्य पूर्णोऽस्ति तेनात्र मत्स्या गृचन्वे । एकेनोक्तं प्रातरत्रागत्य गृहीष्यते मत्स्या । एतदाकर्ण्य अनागतविधाता द्वयोः पुरः प्राह- कल्येऽमी निष्काषयन्ति । आत्मनो वरिष्यन्ति हनिष्यन्ति । प्रत्युत्पन्नमतिः प्राह - सत्योतमन्यत्र गम्यते । 10 एकं च 16 20 परदेशभयाद्भीता बहुमाया नपुंसकाः । स्वदेशे निधनं यान्ति काका: कापुरुषा मृगाः ||१|| यस्यास्ति सर्वत्र गतिः स कस्मात्, एकत्ररात्रेण हि याति नाशम् । तातस्य कूपोऽयमिति ब्रुवाणाः, चारं जलं कापुरुषाः पिबन्ति ||२|| यद्भविष्योऽवग्- तदा हसित्वा अहो भवदुद्भ्यां सम्यग् चिन्तितं मंत्रितं च वचनमात्रश्रुतेः । एतत्पितामहं सरस्त्यक्तुं न युक्तं । आयुः क्षयादन्यत्र गतैरपि न छुट्यते । ततोऽहं न यास्यामि । युवयोर्यद् रोचते तत् क्रियते । ततः अनागतमतिप्रत्युत्पन्नमति अन्यत्र जलाशये गतौ सपरिवारौ। प्रातर्मे निकैस्तत्य जलं विलोड्य यद्भविष्यः सकुटुंबो धृतः स विनाशितस्तैः । उक्तं चअनागतविधाता च प्रत्युत्पन्नमतिश्च यः । द्वावेतौ सुखमाधत्ते यद्भविष्यो विनश्यति ॥ ३ ॥ इति अनागतमति प्रत्युत्पन्नमतियद्भविष्यसम्बन्धः ।। ५९१ ।। [ 692 ] अथ चटिकासम्बन्धः | एकस्मिन् वने चटकदंपती वसतः स्म । चटिकया वृक्षे मालकः कृतः, प्रखबो जातः । गजेनागत्य तथा धूनितो यथा तस्या अपत्यानि मृतानि । एवं चटिका रोदिति एवं पुनः पुनः 26 मालके भग्ने चटिकां प्रति चटकः प्राह-किं क्रियते अत्रान्तरे तत्रागतः काष्टकूट: पक्षी, af दन्तीं दृष्ट्वा प्राह- किं वृथा रुदितेन । उक्तं च नष्टं मृतमतिक्रान्तं नानुशोचन्ति पण्डिताः । पण्डितानां च मूर्खाणां, विशेषोऽयं यतः स्मृतः ॥१॥ "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy