SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २६४ ] प्रबन्धपश्चशती मातापितरौ उप्रियन्ते न । यद्यसौ दीक्षां गृह्णाति तदा वरं । माता प्राह-यदि मम नाम दीयते पुत्रस्य तदा दीयतां दीक्षां । ततो गुरुभिर्दीक्षितः बध्यभट्टिनम ददे तस्य, स्तोरेव दिनैर्बहूनि शास्त्राणि पपाठ । इति बप्पभट्टिदीक्षासंबंधः ||४८२|| [483] अथ आमराज्य प्राप्तिसंबंधः । गोपालनगरे यशोधर्मनृपतेर्यशोदेवी पत्नी पुत्रआम । स चान्यदा पित्रा हकिकतो निर्ययौ गृहात् भ्रमन्स मोढेरकप्रामे बहिर्दवकुले समागात् । इतस्तत्र बप्पभट्टिसाधुस्तत्र गुरुणा सार्द्ध समागात् । स च आमस्तत्र देवकुले काव्यानि बप्पभट्टिपार्श्वाद्वाचयामास । ततो गुरुगा समं स शिशुरुपाश्रये आगतः गुरुणा पृष्टुं कुतस्त्वं पुरादिहागाः स चात्मनो मातापितृपुरादिसम्बन्धं जगौ गुरुणोक्तं किं तव नाम ? ततस्तेनं बालेन खटिकया लिखित्वा ज्ञापितं स्वं नाम आम इति । ततो 10 गुरुणा ज्ञातं महानेष ततो गुरुणा ध्यातं च यः पुरा रामसैन्यग्रामे राज्ञा निष्कासिता स्त्री समागता । तया च पिचुवृक्षे वस्त्रान्दोलके सुक्तो बालकः । तस्य वृक्षस्य छाया न नमिता स एव बालकः एष महान भूपो भविष्यति । ततो गुरुणा श्राद्धानां भलायितः श्राद्धा वर्यं भोजनं ददन्ते 5 15 आपातगुर्वी क्षयिणी क्रमेण, हृस्वा पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्द्धपरार्द्धभिन्ना, छायेव मैत्री खलसज्जनानाम् ||१|| इतस्तत्रस्थं पुत्रं ज्ञात्वा पिता स्वपार्श्वे नेतुं जनमप्रेषयत् । तत आमः प्राह - अहं पित्राकारितस्तत्र गच्छन्नस्मि कदाचिद्राज्यं भविष्यति तदा त्वमेव गुरुः बप्पभट्टिश्वापि । ततो यशोधर्मभूपतेः पितुर्मिलितः पित्रा राज्यं दत्तं, राजा तु आराधनां कृत्वा स्वर्गे [स्वर्ग] गतः आमः पितुः 20 परलोककार्यं कृत्वा गोपगिरिपुरे राज्यं प्राप्तमपि पलालपूलप्रायं मन्यते । ततः आमेन बप्पभट्टि - स्तत्राकारितः आसनं मण्डितं यदा बप्पभट्टिर्जगौ-आसने तु गुरव एवोपविशन्ति । ततः आमेन गुरुपाश्वत् बप्पभट्टेः सूरिपदं दापितम् । इति आमराज्य प्राप्ति सम्बन्धः || ४८३ || [484] अथ गोपगिरौ १८ भारस्वर्णप्रतिमानिर्मापनसम्बन्धः । एकदा श्रीपभट्टिसूरिभिः प्रासादकारणपुण्ये उपदेशो दत्तः । प्रासादप्रतिमा यात्रा - प्रतिष्ठादिप्रभावना अमार्युद्घोषणादीनि महापुण्यानि गेहिनां ॥ १ ॥ काष्ठादीनां जिनागारे, यावन्तः परमाणवः । तावन्ति पल्यलक्षाणि, तत्कर्त्ता स्वर्गभाग्भवेत् ||२|| भट्टिना समं यमः पठति बहुशास्त्राणि पपाठ, लक्षणादिसर्व शास्त्रादिवेत्ताऽभूत् । बप्पभट्टिरामेन गुरुः कृतः, महान्प्रेम तयोरभूत् । एकः एकेन विना न तिष्ठति । यत: 25 १. आरंभगुर्वी । "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy