SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽधिकारः [ १९१ सेजवानी, ७०० शकट, ४००, वाहिन्यः ५०० तुरङ्गम, लक्षद्वयानुमित बहुदेशागत श्रीसंघः तेन श्रीसोमसुन्दर सूरि-श्री मुनिसुन्दर सूरिप्रमुखाः शतानुमित सूरिसहस्रद्वयानुमितसाधुः स्थाने स्थाने स्नात्रपूजादिमहोत्सवः श्री शत्रुब्जयगिरिनारयोश्चकार गुणराजः । प्रान्तेऽनशनं समहोत्सव लात्वा स्वर्गं गतः । इति सा० गुणराज सम्बन्धः || ३४१ || [342] अथ कल्याणत्रयोद्धारसम्बन्धः । श्रीसोमसुन्दरसूरीणामुपदेशात् सोनीसमरसिंहमालादेभ्यां श्रीगिरिनारतीर्थे श्रीनेमिनाथकल्याणत्रयप्रासादोद्धारः कारितः । तत्र लक्षसाधिकलक्षटङ्कव्ययः । इति कल्याणत्रयोद्धारसम्बन्धः ||३४२ || [ 343 ] अथ गोविन्दनाणावटीसंबंधः । इयदरनगरे नाणावटीगोविन्दोऽभूत् धर्मवान् । तत्रैकदा श्रीसोमसुन्दरसूरय आगताः । 10 बन्दिसुं गतः गुरुणामित्युपदेशः "जिणभवणबिंब पुत्थय ०" प्रासादप्रतिमायात्रा - प्रतिष्ठादिप्रभावना अमाद्घोषणादीनि महापुण्यानि गेहिनाम् ||१|| तारङ्गगिरौ श्रीकुमारपालप्रासादे सप्तभूमिके प्रासादे बिम्बमतीव लघीयः । पूर्वबिम्बस्य भङ्गोऽभूत् तेन यः कश्चिदबिम्बोद्धारं कारयति स महान् । एतत् श्रुत्वा नाणावटीगोविन्दो 15 हस्ती योजयित्वा प्रादाहं बिम्बोद्धारं कारयिष्यामि तत आरासणपुराद् बहुद्रव्यव्ययेन ६५ अंगुलप्रमाणं प्रतिमां तत्रानिनाय । बहुषु देशेषु कुकुम पत्रिकाः प्रेषिताः । श्रीसंघः सप्तलक्षप्रमाणो मिलितः । शोभने लग्ने श्रीअजितस्वामिप्रतिमा श्रीसोमसुन्दरसूरयः प्रतिष्ठयामासुः । सर्वोऽपि श्रीसंघः परिधापितः, टङ्कानां लक्षत्रयी व्ययिता संभाव्यते । इति गोविंदनाणावटीसम्बन्धः || ३४३ || [344] अथ धरणविहारसम्बन्धः । पाट भूमण्डन राणकपुरनगरे श्रीधरणसाधुः । श्रीसोमसुन्दर सूरीणामुपदेशात् १०८ देवकुलिकालंकृतं श्रीऋषभदेव विहारं चतुर्मुखं प्रासादं कारयामास । तत्र बहुलक्षटङ्ककव्ययः, सं - १४९५ वर्षे । इति धरणविहारसम्बन्धः || ३४४॥ [ 345] अथ पाजाश्रेष्ठिकारितप्रासादसम्बन्धः । वढवाणप्रामे श्रे० पाजाह्नः कोटिव्वजो वसति स्म । तेन गुरोरुपदेशात् पाजाह्ना वसतिः कारयितुमारब्धा । बहवो जनाः कार्यं कुर्वन्ति । राजा वप्रं महान्तं ग्रामं परितः कारयति । "Aho Shrutgyanam" 20 25
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy