SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽधिकार [ १८१ नीरागानगमन्मुनीन् सुरगवी चिन्तामणिः क्वाप्यगात् , तस्मादर्थिकदर्थनां विषहतां श्रीवस्तुपालः क्षितौ ॥१॥ काव्यं ध्रुत्वा लक्षं ददौ ॥३२३॥ [ 324 ] अथ प्रासादादिपुष्यकरणे हरिषेणचक्रिप्रवन्धः । एकदा हरिषेणचक्री धर्मघोषगुरोः पावें वन्दनार्थे गतः, गुरुभिधर्मदेशना कृता । 5 तथाहिदा हरिषेणचकी जिणभवणबिंबपुन्थय संघसरूवाई सत्तखित्तेसु । ववीअंधणं पि जायइ, सिवफल इम हो अणंतगुणं ॥१॥ सर्वज्ञो हृदि वाचि तद्गुणगणः कायेन देशवतं, धर्मे तत्परतापरः परिणतो बोधो बुधश्लाध्यता । प्रीतिः साधुषु बन्धुता बुधजने जैने रतिः शासने, यस्यैवं भवभेदको गुणगणः स श्रावकः पुण्यभाक् ॥२॥ श्रुत्वैतदुपदेशं चक्री प्राह-मया सर्वा भूर्जिनप्रासादमण्डिता कारयितव्या । ततो गृहमेत्य स्वसचिवादिप्रधानान् प्रति प्राहकोशाद् द्रव्यं गृहन्तु प्रामे प्रामे पुरे पुरे सर्वत्र प्रासादान कारयत यूयं । विलम्बो न कार्यः । धर्मस्य त्वरिता गतिविलोक्यते । यतः-- 15 अवाप्य धर्मावसरं विवेकी, कुर्याद्विलम्ब न हि विस्तराय । ततो जिनस्तक्षशिलाधिपेन, रात्रिं व्यतिक्रम्य पुनने मेने ॥१॥ चक्रिण आदेश प्राप्य मुदिता मन्त्रिणो ग्रामे ग्रामे पुरे पुरे प्रासादान कारयामास । राजा तत्र स्वयं गत्वा गुरूनाकार्य प्रतिष्ठादिकार्य सर्व विस्तरपूर्व कारयामास । एवंविधं पुण्यकृत्यं कृत्वा प्रान्ते त्यक्तराज्यः चारित्रं केवलज्ञानं प्राप्य मुक्ति ययौ । इति प्रासादिपुण्यकरणे हरिषेणचक्रिप्रवन्धः ॥३२४॥ [ 325] अथ रावणजिनप्रासादकरणम् । एकदा रावणो व्योम्नि गच्छन् पुरे पुरे तीर्थे तीर्थे प्रासादपंक्तिं वीक्ष्य पप्रच्छ । केनेयं मही जिनप्रासादसुन्दरा कारिता ! मन्त्रिणोक्तं-सम्प्रतिचक्रिणा । ततस्तस्त्र चक्रिणो धर्मकृत्यानि श्रुत्वा रावणोऽपि बहून्प्रासादानहता कारयामास । इति रावणजिनप्रासादकरणम् ॥३२५।। 25 "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy